________________
कथाकोशः [ ३६ ]
/
रात्रौ सुप्तं दत्तं त्यक्त्वा वीरवत्या चौरसमीपं गच्छत्या पृष्ठतः सहस्रभटस्यागच्छतः पादसंचारं ज्ञात्वा मुक्तखड्गघातेन तदीयाङ्गलिर्वटप्ररोहश्च छिन्नः । चौरेण सा भणिता – प्रिये मम म्रियमाणस्यालिङ्गय मुखेन ताम्बूलं देहि । मृतकनिचयं कृत्वा तस्योपरि चटित्वा मुखताम्बूलदानकाले स्रंसितो मृतकनिचयस्तेन म्रियमाणेन खण्डितो धरस्तन्मुखे स्थितः । गृहमागत्य तया दत्तसमीपे पूत्कारः कृतो ऽनेन ममैतत्कृतमिति । राज्ञा दत्तो मार्यमाणः सहस्रभटेन सर्वं वृत्तान्तं कथयित्वा रक्षितः ।
[ ३६ ] व्याघ्रभयादित्यादि ।
[ वग्घपरो लग्गो मूले य जहा ससप्पबिलपडिदो | पडिदमधुबिंदुभक्खणरदिओ मूलम्मि छिज्जते ॥
[ ३५ ] सुरतस्य दयितस्य महिलाया इति ।
[ साधुं पडिलाहेदुं गदस्स सुरयस्स अग्गमहिसीए । सदीए अंगं कोढेण जहा मुहुत्तेण ॥ १०६१ ॥ ]
अस्याः कथा--अयोध्यानगर्यां राजा सुरतः, पञ्चशतान्तःपुरा - १२ ग्रमहिषी सती । तस्यामासक्तो महाराजकार्ये महामुन्यागमने च मां विज्ञापयेस्त्वं नान्यथेति प्रतीहारं भणित्वा अन्तःपुरे प्रविश्य स्थितः । दमधरधर्मरुचिमनी मासोपवासिनी चर्यायां प्रविष्टौ । सत्या मण्डित - १५ मुखे गोरोचनातिलकं कुर्वाणस्य राज्ञः प्रतीहारेण विज्ञप्तम् - यावतिलको न शुष्यति तावद्देवि मुनिचर्यां कारयित्वा आगच्छामि लग्नो मा रोषं कुर्यास्त्वमित्युक्त्वा गतः । मुनी स्थापयित्वा चर्यां कारयित्वा शीघ्रमायातः । मुनिनिन्दाफलेन सत्या उदुम्बरकुष्ठगृहीतं शरीरमालोक्य सुरतो मुनिरभृत् सती च दीर्घ संसारं गता ।
१८
Jain Education International
५५
For Private & Personal Use Only
३
२१
www.jainelibrary.org