________________
श्री-प्रभाचन्द्र-कृतः - [३३] विच्छेदेावसतो गोपवतीमस्तकमित्यादि ।
[ ईसालुयाए गोववदीए गामकूडधूदियासीसं ।
छिण्णं पहदो तध भल्लएण पासम्मि सोहबलो ।।९५० ] अस्य कथा-पलाशग्रामे विषयिकसिंहबलो, भार्या गोपवती तच्चौरिकया पद्मिनीखेटग्रामे सिंहसेनग्रामकूटस्य पुत्री सुभद्रां परिणीतवान्। तच्छ्रुत्वा गोपवती कोपात्तत्र गत्वा तद्गृहं प्रविश्य मातृकाग्रे सुप्तायाः सुभद्राया मस्तकं गृहीत्वा व्याधुटिता। प्रभाते सुभद्रारुण्डं दृष्ट्वा लज्जित्वा पलाशग्रामे आगतः । गोपवत्या चाभ्यागतस्वागतं कृत्वा भोजनं दत्तम् । तच्चोद्वेगान्न रोचते तस्य । ततस्तयोक्तम्सुभद्राया मुखं पश्य येन भोजनं रोचत इत्युक्त्वा तन्मस्तकं
तद्भाजने क्षिप्तम् । ततो राक्षसीयमिति मत्वा भयत्रस्तो नश्यच्छल्येन १२ विदार्य मारितः ।।
[३४ ] वीरमती संज्ञयेत्यादि। [वीरवदीए सूलगदचोरट्ठोट्ठिगाए वाणियगो। १५ पहदो दत्तो य तहा छिण्णो ओट्ठो त्ति आलविदो ॥९५१॥]
अस्य कथा-राजगृहनगरे अतीवेश्वरः श्रेष्ठिधनमित्रः, श्रेष्ठिनी धारिणी, पुत्रो दत्तः। भूमिगृहनगरे आनन्दमित्रवत्योः पुत्री वीरवती १८ परिणीतवान् । तत्रैव चोरः प्रचण्डो ऽङ्गारनामा तस्यानुरक्ता वीर
वती दत्ता। रत्नद्वीपे गत्वा बहुभिर्दिवसः बहुक्रियाणकानि गृहीत्वा
आगतः । भार्याया उत्कण्ठितो निजविडादने [?] भूत्वा श्वशुर२१ गृहं गच्छन्नटव्यां सहस्रभटचोरेण दृष्टः । ततः स कौतूहलात्तदीयं
कौतुकं द्रष्टुं तेन सहागतः। श्वशुरेणागतस्य महोत्सवः कृतः । तस्मिन्नेव दिने चौरिकायामङ्गारचोरः प्राप्तो गज्ञा शूलेन प्रोतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org