________________
कथाकोशः [३९] अस्य कथा-कौशाम्बीपुर्यां नवतिवार्षिक: पथश्रान्तशकटमुनिश्चर्यायां प्रविष्टः । अशीतिवर्षिकया सूत्रकर्तनजीविन्या जैनीब्राह्मण्या चर्या कारयित्वा पृष्टः। केन कारणेन मुने त्वया तपो ३ गृहीतम् । कथितं तेन-अस्यां कौशाम्ब्यां ब्राह्मणः सोमशर्मा, ब्राह्मणी काश्यपी तत्पुत्रो ऽहं शकटः, रोहिणी मम भार्या, अतीव वल्लभा मृता। ततो मया तपो गृहीतम् । वृद्ध त्वमपि कथं जीवसि । कथितं तया अत्र ६ ब्राह्मणः शिवशर्मा, ब्राह्मणी सोमिल्ला, अहं तत्पुत्री जैनी शंकरब्राह्मणेन परिणीता। मृते तस्मिन्कार्पासं कर्तित्वा जीवामीत्याकर्ण्य शकटेन हसित्वोक्ता सा त्वं स्मरसि यदुपाध्यायगृहे त्वया मया च ९ सह पठितम् । तयोक्तम्--सर्वं स्मरामीति संसर्गस्नेहाद्भग्नः ।।
[३९] कूचवारो ऽपि । गणियासंसग्गीए य कूववारो तहा णट्ठो ॥११००॥] अस्य कथा-पाटलिपुत्रनगरे राजा अशोको, राज्ञी अशोका। अशोकराजस्य भ्राता कूचवारनामा अतीव शूरः । एकदा ससंघो वरधर्मनामा गणधरदेवः समायातः । तत्पावें धर्ममाकर्ण्य मुनिर्भूत्वा १५ महाटव्यां मध्यमन्दिरपर्वतोपरि महातपः कर्तुं लग्नः । शत्रुभिरागत्य पाटलिपुत्रे वेष्टिते दुःखितेनाशोकराजेनोक्तम्-कूचवारेण विना कीदृशी मे ऽवस्था जाता। ततो वीरमतिविलासिन्या भणितम्-देव, १८ मा दुःखितो भव, तं कृचवारमहमानयामि । राजवचनेन बहुगणिकाभिः सहार्यकारूपेण तत्र पर्वतेन गता कपटेनैकां धूर्ती पर्वततले धृत्वा तत्समीपं गत्वा वन्दित्वा भणितम्-भगवन्नेकार्यकावग्रहविशे- २१ षेणागता गिरिं चटितुं न शक्नोति गत्वा तस्याः पादान् दर्शय । ततः स आगतो धूर्त्या दर्शितशरीरावयवया नाशितः शत्रूपद्रवं श्रुत्वा आगत्य निर्जिताः शत्रवः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org