________________
श्री-प्रमाचन्द्र-कृतः
[३१] कडारपिङ्गो गतो नरकम् । [ इहलोए वि महल्लं दोसं कामस्स वसगदो पत्तो। ____ कालगदो वि य पच्छा कडारपिंगो गदो गिरयं ॥९३५।।]
अस्य कथा-काम्पिल्यनगरे राजा नरसिंहः, मन्त्री सुमतिः, भार्या धनश्रीः, पुत्रः कडारपिङ्गः, राजश्रेष्ठी कुबेरदत्तः। श्रेष्ठिनी ६ प्रियङ्गसुन्दरी अतिशयवद्रूपलावण्ययौवनयुक्ता। तां दृष्ट्वा स
कडारपिङ्गो विह्वलीभूतो गृहे गत्वा स्थितो मात्रा पृष्टः । किमीदृशी पुत्र तवावस्था जाता। तेन कथितम्-श्रेष्ठिन्या विना म्रिये ९ ऽहम् । ततस्तया सुमतिमन्त्रिणः कथितम् । तेन च कपटेन भणितो
राजा। देव रत्नद्वीपात्किंजल्पनामा[नं] पक्षिणं श्रेष्ठी समानयतु ।
तत्प्रभावेन व्याधिमरणपरचक्रादयो न भवन्ति । ततो राज्ञा १२ तमानेतुं स प्रेषितः । तेन च निजगमनं प्रियङ्गसुन्दर्याः कथितम् ।
तया भणितम् कडारपिङ्गो मे शीलनाशं कर्तुमिच्छति । तदर्थं तव
गमनमिति । एतदाकर्ण्य शुभदिने प्रवहणं प्रेष्य श्रेष्ठी व्याघुट्य १५ प्रच्छन्नो गृहे स्थितः। कडारपिङ्ग आगतो वक़गृहे निःसन्धिमञ्चके
प्रच्छदपटिकाप्रच्छादिते उपविष्टो वर्चीगृहान्तःपतितः षण्मासां
स्तत्र स्थितः । सर्वपिच्छपक्षान् कृत्वा नगरक्षोभेनागते प्रोहणे स १८ कडारपिङ्गो राजसमीपे नीतः । पूर्ववृत्तान्तः कथितः । गर्दभारोहणादिना कडारपिङ्ग : कथितो मृतो नरकं गतः ।।
[३२] साकेतपुराधिपतिर्देवरतिरित्यादि । [ साकेतपुराधिवदी देवरदी रज्जसोक्खपभट्ठो।
पंगुल हेदूं छुढो णदीए रत्ताए देवीए ।।९४९।। ] अस्य कथा--अयोध्यायां राजा देवरतिः, राज्ञी रक्ता। स
२१
२४ १) निसिन्धु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org