________________
कथाकोशः [३०]
खन्यमानायां राजाज्ञया निःसरत्प्रविशत्सर्वलोकः खातिकां खान्यतो सावपि भणित: - भट्टारक, खातिकायां घातं देहि । स चागच्छन् दास्यामीत्युक्त्वा अग्रे गतः । अथ वाराणसीनगर्यां राजा श्रीधर्मो, ३ राज्ञी श्रीमती, पुत्री श्रीकान्ता । सा उज्जयिन्यां जितशत्रुणा परिगीता | तस्याः कायसुन्दरी विलासिनी श्रीधर्मराजेन दत्ता । सा जितशत्रोः प्राणप्रिया जाता | श्रीकान्तया पितुः कथितम् - पित्रा च ६ संकेतिनापि तेन कायसुन्दर्याः पादाङ्गुष्ठे नखे विषं संचारितम् । तेन दुर्गन्धो नाडीव्रणो जातः । ततो जितशत्रुणा परिहृता सुवर्णमवाङ्गुष्ठेन गणिकावृत्त्या स्थिता । तां दृष्ट्वा सशृङ्गारां तदासक्तचित्तः स ९ मुनिर्व्याघुटितो लोकवचनाद् भूमिविहारिणीजलवाहिनीविद्याभ्यामभिमन्त्रय कुर्दालन खातिकायां घातं दत्त्वा गतः । कूर्दालजलेनोपद्रुतां नगरीं तां वार्तां च श्रुत्वा सकललोकैः सह गत्वा राजा तन्मुनेः पादे १२ लग्नः कायसुन्दर्या उपरि सस्नेहां तदीयदृष्टि दृष्ट्वा राज्ञा तदभिप्रायमालक्ष्य गृहे नीत्वा सा तस्य समर्पिता । प्रधानपदं च दत्तम् । भणिता सा - यद्यस्य किंचिदनिष्टं भवति तदा तव निग्रहं करिष्या - १५ मीति । एकदा द्वीपान्तराद्रत्नपादुके राज्ञः प्रभूतेरानीते राज्ञा च ते गोरसंदीपस्य दत्ते तेन च तत्परिधानार्थं कायसुन्दरीचरणसुवर्णाङ्गुष्ठेन धृत्वा आकृष्टः । निःसृते तस्मिन्नाडीव्रणमालोक्य वैराग्यं १८ गतो विमलचन्द्राचार्यसमीपे मुनिर्भूत्वापि तामेव स्मरति । सा च राजनिग्रहभयाद्गले चीरं बद्ध्वा उकल्मनं कृत्वा मृता । राज्ञा च कुपितेन तस्या अग्निदानं निषिद्धम् । ततः श्मशाने घातिता कुथिता २१ च । गुरुगा ज्ञानिना भ्रमणिकायां गतेन तस्यां दिशि गत्वा तले बृहद्वेलां गौरसंदीप मुनिर्वृतः । तद्गन्धेन पीडितः आगत्य मुनिनोक्तम् - इयं सा त्वदीया वल्लभा । इदानीमेतस्याः किमिति तव गन्धोऽपि २४ न प्रतिभासत इत्युक्त्वा सा तस्य दर्शिता । ततो निःशल्यं तपः कृत्वा परलोकं गतः ॥
Jain Education International
For Private & Personal Use Only
५१
www.jainelibrary.org