________________
श्री- प्रभाचन्द्र-कृतः
लगित्वा व्याघुटितः । किं कारणमिति वितर्क्स तत्र गत्वा तं स्पृष्ट्वा तं ज्ञात्वा वसोः कथितम् । वसुश्च प्रच्छन्नवृत्त्या तं गृहमानयत् विष्टरं कृत्वा सभायां तस्योपरि गगने स्थितः । एकदा नारदः पर्वतपाश्वें आगतः । तत्र प्रस्तावे अजैर्यष्टव्यमिति वाक्यम् अजैश्छागैरिति व्याख्यातं पर्वतेन । नारदेनोक्तम् - अजैस्त्रिवर्षैर्धान्यैरित्युपा६ ध्यायव्याख्यातम् । विवादे सति जिह्वाच्छेदप्रतिज्ञां कृत्वा वसुवचनं प्रमाणीकृत्य स्थितौ । तच्छ्रुत्वा स्वस्तिमत्या भवतोर्भणितो विरूपकं त्वया व्याख्यातं तव पिता सदा त्रिवार्षिकधान्यैरेव यागं करोति । ततस्तया गत्वा वसुर्वरं प्रार्थितः । पर्वतवचनं त्वया प्रमाणीकर्तव्यमिति । प्रभाते द्वयोर्वचनमाकर्ण्य उपाध्यायव्याख्यानं स्मरतापि पर्वतवचनं प्रमाणीकृतम् । ततः सिंहासनात्पतितो नारदेनोपाध्याया१२ थमद्यापि भणेति भणितो ऽपि पर्वतवचनं प्रमाणमिति भणति । ततो भूमौ प्रविष्टो मृत्वा सप्तमनरकं गतः ।
३
[२८] परधनहरणमनोपः श्रीभूतिरित्यादि ।
[ परदव्वहरणबुद्धी सिरिभूदी णयरमज्झयारम्मि | होण हृदो पदो पत्तो सो दीहसंसारं ॥। ८७४ ॥ ] अस्य कथा - सिंहपुरे राजा सिंहसेनो, राज्ञी रामदत्ता, पुरो१८ हितः श्रीभूतिः सर्वलोक विश्वसनीयः । पद्मषण्डपत्तने वणिक् सुमित्रो, भार्या सुमित्रा, पुत्रः समुद्रदत्तः । तो वाणिज्येन सिंहपुर - मायाती पञ्च रत्नानि श्रीभूतिपार्श्वे धृत्वा तातपत्नी निजभार्यां च धृत्वा रत्नद्वीपं गतौ । द्रव्यमुपार्ण्य व्याघुटितो समुद्रमध्ये स्फुटिते प्रवहणे सुमित्रादयो मृताः । समुद्रदत्तः कथमपि सिंहपुरनगरमागतो जननीभार्ययोमिलित्वा श्रीभूतिपाखें रत्नार्थी गतः । तेन च तमा२४ गच्छन्तमालोक्य लोभं गतेन पार्श्वस्थलोकानां कथितम् - पुरुषो ऽयं
१५
४८
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org