________________
कथाकोशः [२७]
[२७] अनृतवचनेन नरकं वसुश्च गत इत्यादि ।
[ पावस्सागमदारं असच्चवयणं भणति हु जिणिदा । हिदएण अपावो विहु मोसेण गदो वसू णिरयं ॥ ८४९ ॥ ] अस्य कथा - अयोध्यायां राजा जयो, राज्ञी सुरक्ता, तत्पुत्रो वसुः, उपाध्यायः क्षीरकदम्बस्तद्भार्या स्वस्तिमती, पुत्रः पर्वतो, वैदेशिको नारदश्च त्रयो ऽपि क्षीरकदम्बाचार्य पार्श्वे पठन्ति । पर्वतस्य विशिष्टपरिज्ञानादर्शनात् स्वस्तिमती रुष्टा निजपुत्रं न पाठयसीति नित्यं भणति । उपाध्यायेनोक्तम् - जडो ऽयम् । तथा हि कपर्दकान् दत्त्वा त्रयोऽपि छात्रा भणिताः । कपर्दकैश्चणकान् भक्षित्वा कपर्दकांश्च गृहीत्वा आगच्छथ । पर्वतः कपर्दकैश्चणकान् भक्षित्वा रिक्तो गृहमागतः । वसुनारदौ चार्घ पृच्छामिषेण बहुस्थानेषु चणकान् भक्षित्वा कपर्दकैः सहितावागतौ । तथा एकान्ते यत्र को ऽपि न पश्यति १२ तत्र छागवधप्रेषणे गर्तायां छागं वधित्वा पर्वत आगतः । वसुनारदौ सर्वत्र यमादित्यादयश्च पश्यन्तीति मत्वा जीवन्तौ छागी गृहीत्वा आगतौ । ततो दृष्टं पर्वतजडत्वमित्युपाध्यायेन भणिता । एकदा १५ कृतापराधो वसुरुपाध्यायेन यष्ट्या कुट्यमानः स्वस्तिमत्या रक्षितः । तेन च वरो दत्तस्ततस्तयोक्तम् - यदा याचयिष्यामि तदा दद्यास्त्वम् । एकदाटव्यां चत्वारोऽपि बृहदारण्यकशास्त्रं पठन्तः स्थिताः । तत्रैव १८ प्रदेशे स्वाध्यायं गृहीतुं चारणमुनी अवतीर्णौ । लघुमुनिनोक्तम्भगवन्, पश्य क्षेत्रशुध्द्या एते पठन्ति । भगवतोक्तमेतेषु द्वौ नरकगामिनौ । तद्वचनमाकर्ण्य क्षीरकदम्बरछात्रान् गृहं प्रेष्य मुनि २१ प्रणम्य को नरकगामिनाविति मुनि पृष्ट्वा वसुपर्वताविति विरक्तबुद्धिरसौ मुनिजतः । पर्वतः पञ्चशतछात्राणामुपाध्यायो जातः । नारदो देशान्तरं गतः । जयो वसवे राज्यं दत्त्वा मुनिरभूत् । २४ एकदाटव्यामेकेन पापद्धिकेन मृगस्य बाणो मुक्तः । आकाशस्फुटिके
Jain Education International
For Private & Personal Use Only
४७
www.jainelibrary.org