________________
४६
श्री-प्रभाचन्द्र-कृतः च कस्त्वं किमर्थमेतत्कृतमिति पृष्टः। श्रेष्ठिनं प्रणम्य तेन कथितम्सो ऽहं दृढशूर्पो भवत्प्रसादात् सौधर्मे महद्धिकदेवो जातः । तव प्रातिहार्यार्थमेतत्कृतम् ।।
[२६] चाण्डालः सुरपूजामित्यादि । [पाणो वि पाडिहेरं पत्तो छूढो वि सुंसुमारहदे । एक्केण अप्पकालक्कदेण ऽहिंसावदगुणेण ।।८२२।।]
अस्य कथा-वाराणसीनगर्यां राजा पाकशासनः सकलदेशे मरकं श्रुत्वा कार्तिकशुक्लाष्टम्याः प्रभूत्यष्टदिनानि शान्त्यर्थं जीवामारिघोषणां कारितवान् । सप्तव्यसनाभिभूतेन राजश्रेष्ठिपुत्रेण धर्मनाम्ना उद्यानवने चरन् राजकीयमेंढ़ को मारयित्वा पिशितोपयोगं कृत्वा अस्थीनि गर्तायां निक्षिप्य मृत्तिकया पिधाय गतः ।
मेंढ़कादर्शने राज्ञा सर्वत्र चरा निरूपिताः । रात्रौ चोद्यानपालकेन १२ स्वभार्याया मेंढ़कमारणवृत्तान्तः कथितः । तं श्रुत्वा चरेण राज्ञः
कथितम्-राज्ञा च श्रेष्ठिपुत्रस्य धर्मनाम्नः शूलारोहणं कार्यता
मिति यमदण्डकोट्टपालो भणितः । तेन च शूलप्रदेशे तं नीत्वा १५ यमपालमातङ्गस्तन्मारणार्थमाकारितः । तेन च सर्वोषधीमुनिसमीपे
धर्ममाकर्ण्य चतुर्दश्यां जीवं न मारयिष्यामीति व्रतं गृहीतम् । ततो
ग्रामं गत इति कथय त्वमिति भार्यां भणित्वा गृहकोणे संलिप्य १८ स्थितः । तया तथा कथिते बहुसुवर्ण युक्तचौरमारणे स पापो ऽद्य गत
इति यमदण्डवचनात्तया हस्तसंज्ञया दर्शितः । निःसारितो ऽपि वदत्यद्य न मारयामि । राज्ञो ऽप्यग्रे नीतो देवाद्य न मारयामि चतुर्दश्यां जीवघाते ममावग्रहो ऽस्तीति वदति । ततः कुपितेन राज्ञोक्तं द्वावपि संसुमारहदि निक्षिपेति। यमदण्डेन द्वावपि तत्र निक्षिप्तौ धर्मः संसुमारैक्षितः । यमपालो व्रतमाहात्म्याज्जलदेवताभिः सिंहासने धृत्वा पूजितः ॥ १) संलिप्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org