________________
४३
कथाकोशः [२४] त्सर्गस्थः सुदर्शन आनीय तस्याः समर्पितः । आलिङ्गनादिविज्ञानस्तया न क्षोभितः । पाणिपात्रे प्रभाते निस्तीर्णोपसर्गः पारणं करिष्यामीति प्रतिज्ञामादाय काष्ठीभूय स्थितः। अभयमत्या आत्मानं नविदार्य ३ श्रेष्ठिनो बलाद्विध्वंसिताहमिति प्रभाते फूत्कारः कृतः । एतदाकर्ण्य राज्ञा श्रेष्ठी श्मशाने नीत्वा मार्यतामित्युक्तम् । तत्र राजपुरुषेण यो ऽसिस्तस्य मुक्तः स तस्य कण्ठे पुष्पमाला बभूव । देवैस्तस्य शील- ६ प्रशंसां कृत्वा पुष्पवृष्टयादिकं कृतम् । नगरजनेन राज्ञा च क्षमा कारितः । सुकान्तपुत्रं निजपदे धृत्वा विमलवाहनमुनिपार्वे तपो गृहीत्वा केवलमुत्पाद्य मोक्षं गतः ।।
२ि४] खण्डश्लोकैरित्यादि ।
[जइ दा खंडसिलोगेण जमो मरणादो फेडिदो राया। पत्तो य सुसामण्णं किं पुण जिणउत्तसुत्तेणं ॥७७२।]
अस्य कथा-औढविषये धर्मनगरे राजा यमः सर्वशास्त्रज्ञो, राज्ञी धनवती, पुत्रो गर्दभः, पुत्री कोणिका, अन्यासां राजीनां पुत्राणां पञ्चशतानि, मन्त्री दीर्घनामा। निमित्तिना आदेशः कृतः-य: १५ कोणिकां परिणेष्यति स सर्वभूमिपतिर्भविष्यति । ततो यमेन कोणिका भूमिगृहे प्रच्छन्ना धृता, प्रतिचारका निवारिताः, न कस्यापि कथयन्ति ताम् । एकदा पञ्चशतयतिभिः सहागतस्य सुधर्ममुनेर्वन्दनार्थ १८. जनं गच्छन्तमालोक्य यमो ज्ञानगर्वान्मुनीनां निन्दा कुणिस्तत्समीपे गतः । मुनिज्ञाननिन्दाकरणात्तत्क्षणादेव बुद्धिनाशस्तस्य जातः । ततो निर्मदो मुनीन्प्रणम्य धर्ममाकर्ण्य गर्दभाय राज्यं दत्त्वा पञ्चशतपुत्रैः २१ सह मुनिरभूत् । पुत्राः सर्वे सर्वश्रुतधरा जाताः। यममुनेस्तु पञ्चनमस्कारमात्रमपि नायाति। गुरुणा गहितो लज्जितो गुरुं पृष्टवा तीर्थमेकाकी गतः । तत्र यवक्षेत्रमध्ये गर्दभरथेन गच्छत एकपुरुषस्य २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org