________________
श्री प्रभाचन्द्र कृतः
चारणमुनिर्दृष्टः । शीतकाले तुषारे पतति शिलातलस्थो निःप्रावरणः कथं रात्रौ गमयिष्यतीति संचिन्त्य गृहे गत्वा पश्चिमरात्रौ महिषी गृहीत्वा शीघ्रं गतः । तं मुनिं समाधिस्थमालोक्य शरीरे पतितं तुषारं स्फेटयित्वा हस्तपादादिमर्दनं कृतवान् | आदित्योदये ध्यानमुपसंहृत्य आसनभव्यो ऽयमिति मत्वा ' णमो अरहंताणं' इति मन्त्रः कथितः । तं च मन्त्रमुच्चार्य भगवानाकाशे गतस्तन्मन्त्रस्योपरि तस्य महती श्रद्धा जातेति सर्वक्रियासु प्रथमे तमुच्चारयति । श्रेष्ठिना किमेवं रे विप्लवं करोषीति निवारितः । तेन च पूर्ववृत्तान्ते कथिते श्रेष्ठिनोक्तं त्वमेव धन्यो येन तत्पादा दृष्टाः । एवमेकदा गङ्गामुत्तीर्य ता महिष्यो वल्लक्षेत्रं भक्षितुं चलिताः । ता निवर्तयितुमुत्सुकेन नमस्कारमुच्चार्य जलमध्ये झम्पा दत्ता । अदृश्यकाष्ठेनोदरे विद्धः निदानेन मृत्वा अर्हद्दास्याः श्रेष्ठिन्याः पुत्रः सुदर्शननामा जातः । अतिरूपवान् सकलविद्योपेतः सागरसेनासागरदत्तयोः पुत्री मनोरमां परिणीतवान् । एकदा वृषभदासश्रेष्ठी सुदर्शनं निजपदे धृत्वा समाधि१५ गुप्तिमुनिसमीपे मुनिरभूत् । सुदर्शनो राज्ञा पूजितः । सर्वजनप्रसिद्धो जातः । एकदा राज्ञा सहोद्यानक्रीडायां महाविभूत्यागतः । अभयमतिराज्ञ्या दृष्ट: । विह्वलीभूतया धात्री पृष्टा - को ऽयम् । तया कथितम्राजश्रेष्ठी सुदर्शनो ऽयम् । पुनस्तयोक्तम् - यद्यनुं मे मेलयसि तदा जीवामि, अन्यथा म्रिये । धात्र्या चावश्यं मेलयामीति समुद्धीर्य सा गृहं नीता । कुम्भकारपार्श्वे च गत्वा पुरुषप्रमाणो मृत्तिकापुत्तलकः कारितः । वस्त्रेण वेष्टयित्वा राज्ञीपार्श्वे गृहीत्वा गच्छन्ती सा द्वारपालकैर्धृता । कौटिल्येन पुत्तलकं प्रक्षिप्य भग्नमालोक्य तया ते भणिता: -- राज्ञी पुरुषविधानं करोति, अद्य वुभुक्षितास्य पूजां कारयिष्यति । अयं च भवद्भिर्भग्न अतो भवतः सर्वान्प्रभाते मारयिष्यामि । ततो भीतैस्तैरुक्तम् - क्षमां कुरु । कोऽपि कदाचिदपि त्वां न वारयतीति । एवं द्वाररक्षकान्नियन्त्रित्वा अष्टम्यामर्धरात्रे श्मशाने कायो
I
२४
१२
१८
२१
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org