________________
कथाकोशः [२१]
कृतः। तं च पञ्चनमस्कारान् स्मरन्तं मारयितुं न शक्नोति । ततस्तेन प्रकटीभूय प्रविचार्य भणितो ब्रह्मदत्तः-रे त्वां मारयामि लग्नो यदि जिनशासनं नास्तीति भणित्वा परदर्शनं प्रशस्य पञ्चरोक्षा. ३ नमस्कारान् लिखित्वा पादेन विनाशयति [सि ?] तदा न मारयामोति। तेनैतस्मिन् कृते जलमध्ये तेन स मारितः सप्तमनरके गतः॥
[२१] नृपश्रेणिको ऽविरतः ।
[सुद्धे सम्मत्ते अविरदो वि अज्जेदि तित्थयरणामकम्मं । जादो खु सेणिगो आगमेसि अरुहो अविरदो वि ।।७४०॥ ]
अस्य कथा-मगधदेशे राजगृहनगरे राजा श्रेणिको, राज्ञी ९ चेलिनी सम्यग्दृष्टिनी जिनागमे अतीव कुशला। एकदा सा श्रेणिकेन भणिता-विष्णुधर्म एव सर्वधर्मेभ्यः श्रेष्ठस्तत्रैव त्वया रतिः कर्तव्या। एतदाकर्ण्य तया भणितम्-देव, भगवतां भोजनं ददामीति । ततो १२ निमन्त्र्यानीय महामण्डपे गौरवेण धृताः । तत्र च ते ध्यानेन स्थिताः। चेलिन्या पृष्टाः-किं भवन्तो ध्याने स्थिताः कुर्वन्तीति । तैरुक्तम्शरीरं त्यक्त्वा आत्मानं विष्णुलोके नीत्वा परमानन्देन तिष्टाम १५ इति । ततस्तया तेषां ध्याने स्थितानां मण्डपः प्रज्वालितस्ते च नष्टाः । रुष्टेन राज्ञा सा भणिता-यदि भक्तिर्नास्ति तदा किमित्थमेते तव मारयितुं युक्ताः । तयोक्तम्-देव, कुत्सितं शरीरं त्यक्त्वा १८ एते विष्णुलोके गताः। एतस्मिन् शरीरे दग्धे तत्रैव तिष्ठन्तीत्युपकारार्थमेतेषां शरीरदाहः कर्तुमस्माभिरारब्धः । अस्यैवार्थस्य समर्थनार्थं दृष्टान्तत्वेन तत्प्रसिद्धां कथामाह ॥ यथा वत्सदेशे कौशाम्बीनगर्यां प्रजापालो राजा, श्रेष्ठी सागरदत्तो, भार्या वसुमती। तत्रैवापरः श्रेष्ठी समुद्रदत्तो, भार्या समुद्रदत्ता, द्वयोरपि परमस्नेहेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org