________________
श्री- प्रभाचन्द्र-कृतः
६
तिष्ठतोर्वाचा निबन्धो जातः । यथावयोर्यौ पुत्रीपुत्रो जायेते तयोरन्योन्य विवाहः कर्तव्यो येनावयोः सर्वदा स्नेहेन कालो गच्छतीति । ततः कतिपयदिनैः सागरदत्तेन वसुमत्यां वसुमित्रनामा पुत्रो जातः । स च दिवसे सर्पो रात्रौ दिव्यः पुरुषो भवति । तथा समुद्रदत्तेन समुद्रदत्तायां नागदत्ता नाम पुत्री जाता । सा वसुमित्रेण परिणीता । स च रात्रौ दिव्यपुरुषरूपं धृत्वा नागदत्तया स भोगान् भुङ्क्ते । एकदा समुद्रदत्तया नागदत्तां यौवनभराक्रान्तामतिशयेन रूपवतीं दृष्ट्वा दीर्घ निःश्वासं मुक्त्वा उक्तम् - हा कष्टतरं विधेश्चेष्टितमीदृश्या मत्पुत्र्याः कीदृशो वरो जात इति । एतद्वचः श्रुत्वा नागदत्तयोक्तं मा विसूरय [ = मा विषादं गच्छ], मद्भर्ता रात्रौ पिट्टारके सर्पशरीरं मुक्त्वा दिव्यं पुरुषशरीरं गृहीत्वा मया सह भोगान् भुङ्क्ते । १२ एतच्छ्रुत्वा समुद्रदत्तया नागदत्तागृहे गत्वा रात्रौ वसुमित्रेण पिट्टारके सर्पशरीरं मुक्त्वा दिव्यं पुरुषशरीरं धृत्वा निर्गते पिट्टारके दग्धे वसुमित्रो रात्रिदिवमिष्टं कामभोगान् भुञ्जानः सुखेन स्थितः । १५ एवं भगवच्छरीरे कुत्सिते दग्धे भगवन्तो विष्णुलोक एव सततं
सुखं भुञ्जानास्तिष्ठन्तीत्यभिप्रायेण देव मया एतच्छरीरदाहः कर्तु - मारब्ध इति । एतदाकर्ण्य चित्तस्थकोपे मौनेन स्थितः । एकदा १८ पापद्धगतेनातापनस्थं यशोधरमुनिमालोक्य मम पापद्धविघ्नकारिणं मारयामीति संचिन्त्य पञ्चशतकुर्कुरा मुक्ताः । ते च मुनेः प्रदक्षिणं कृत्वा प्रणतोत्तमाङ्गेन स्थिताः । ततो ऽतिकोपाद् बाणा मुक्तास्ते पुष्प२१ माला जाताः । तस्मिन् समये तेन सप्तमनरके त्रयत्रिंशत्साग रोपमायुर्बद्धम् । तं चातिशयमालोक्य पूर्णयोगं तं मुनिं प्रणम्य तत्त्वमाकर्ण्य उपशमसम्यक्त्वं गृहीत्वा प्रथमनरके चतुरशीतिवर्षसहस्र२४ मायुः कृतम् । चित्रगुप्तमुनिसमीपे क्षायोपशमिकं वर्धमानस्वामिनः पादमूले क्षायिकं सम्यक्त्वं गृहीत्वा दर्शनविशुद्धयादिभावनाभिस्तु तीर्थंकरत्वमुपार्जितम् ॥
३
९
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org