________________
कथाकोशः [१९] पुत्रः सोमको बालः। समुद्रदत्तः सोमकेन सह क्रीडति । एकदा गोपायनेन द्रव्यलोभान्निजगृहे सोमकस्याग्ने स समुद्रदत्तं मारयित्वा आभरणं गृहीत्वा गर्तायां संनिक्षिप्तः। तस्यादर्शने व्याकुलत्वं ३ सकलबन्धनां, सागरदत्तया सोमकः पृष्ट: । क्व रे समुद्रदत्तः । तेन चाविकल्पेनात्र गर्तायां तिष्ठतीत्युक्तम् । तया तत्र तं तथा दृष्ट्वा श्रेष्ठिनः कथितम् । तेन च यमदण्डकोट्टपालस्य, तेनापि राज्ञः, ६ राज्ञा दण्डादिकं कृतमिति ।।
[१८] चन्द्रपरिवेषणाद्भक्तमिति । [मिगतण्हादो उदगं इच्छइ चंदपरिवेसणे कूरं ।
जो सो इच्छइ सोधी अकहंतो अप्पणो दोसे ।। ५७२ ] - अत्र कथा-राजगृहनगरे राजा वसुपाल: सदा रात्रौ भुङ्क्ते । तस्य चन्द्रनामा महानसिकः परिवारप्रियः । रुष्टेन राज्ञा चन्द्रो १२ निःसारितो ऽन्यो महानसिकः कृतः। ततः परिवारेण राजाग्रे भोजनं त्यक्तम् । एकदा भोजनसमये गगने चन्द्रस्य परिवेषमालोक्य लोकैरुक्तम्-चन्द्रस्याद्य परिवेषो जात इति। तच्छ त्वा परिवारेण १५ चन्द्रसूपकारस्य प्रवेशो जात इति मत्वा भुक्तवाञ्छयागतेन न च भुक्तं भोजनं तेन विना कृतमिति ।।
[१९] स्फुटिते नयने सङ्घश्रियः । १८ [ अच्छीणि संघ सिरिणो मिच्छत्तणिकाचणेण पडिदाणि ।
कालगदो वि य संतो जादो सो दीहसंसारे ॥ ७३२ ॥]
अस्य कथा-अन्ध्रदेशे धान्यकनकनगरे राजा धनदत्तः सदृष्टिः, २१ सङ्घश्रीमन्त्री। ताभ्यामपराह्ने प्रासादोपरिभूमौ मन्त्रं कुर्वद्भ्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org