________________
कथाकोशः [१४] दत्ता, पुत्री दरिद्रा। मृते सागरे दरिद्रां चैकदा परगृहे निक्षिप्तसिक्थानि भक्षयन्ती चर्यायां प्रविष्टेन मुनिद्वयेन दृष्टा। ततो लघुमुनिनोक्तम्-हा वराकी महता कष्टेन जीवत्येतदाकये ज्येष्ठमुनि- ३ नोक्तमत्रैवास्य राज्ञः पट्टराज्ञी वल्लभा भविष्यतीति । भिक्षां भ्रमता धर्मश्रीवन्दकेन तद्वचनमाकर्ण्य नान्यथा मुनिभाषितमिति संचिन्त्य स्वविहारे नीत्वा मृष्टाहारैः पोषिता। एकदा यौवनभरे चैत्रमासे ६ आन्दोलयन्ती राजा दृष्ट्वा ऽतीव विरहावस्थां गतः। ततो मन्त्रिभिर्वन्दकस्तां तदर्थं याचितः । तेन चोक्तम्-यदि मदीयं धर्मं राजा गृह्णाति तदा ददामीति । तत्सर्वं कृत्वा परिणीता। पट्टमहादेवी तस्य सातिवल्लभा जाता । फाल्गुननन्दीश्वरयात्रायां उविलारथयात्रामहाटोपं दृष्ट्वा तया भणितम् । देव, मदीयो बुद्धरथो ऽधुना पुर्यां प्रथमं भ्रमतु। राज्ञा चोक्तमेवमस्त्विति। तत उविला मदीयो रथो १२ । यदि प्रथमं भ्रमति तदा ममाहारे प्रवृत्तिरिति प्रतिज्ञा गृहीत्वा क्षत्रियगुहायां सोमदत्ताचार्यपार्वे गता। तस्मिन्प्रस्तावे वज्रकुमारमुनेर्वन्दनाभक्त्यर्थमायाता दिवाकरदेवादयो विद्याधरास्तदीयवार्ता श्रुत्वा वज्रकुमारमुनिना ते भणिताः। उविलायाः प्रतिज्ञापूरणार्थं रथयात्रा भवद्भिः कर्तव्येति । ततस्तैर्बुद्धदासीरथं भङ्क्त्वा नानाविभूत्या उविलाया रथयात्रा कारिता । तमतिशयं दृष्ट्वा पूतिमुखा १८ बुद्धदासी अन्ये च जना जिनधर्मरता जाताः ।।
१५
[१४] भगिनीं विडम्बमानामित्यादि । [भयणीए विधम्मि [डंबि] जंतीए एयत्तभावणाए जहा। जिणकप्पिओ ण मूढो खवओ वि ण मुज्झइ तधेव ।।२०१॥]
अत्र कथा-मगधदेशे राजगृहनगरे राजा प्रजापालो, राज्ञी प्रियधर्मा, तत्पुत्रौ प्रियधर्मप्रियमित्रौ । तौ तपः कृत्वाच्युतस्वर्गे
४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org