________________
२८
श्री-प्रभाचन्द्र-कृतः मिति । मातङ्गेन च योऽसिः शिरोमहणार्थं वाहितः स कण्ठे तस्य
पुष्पमाला बभूव । तमतिशयमाकर्ण्य श्रेणिकेन गत्वा वारिषेणक्षमा ३ कारितो लब्धाभयप्रदानेन विधुच्चोरेण राज्ञो निजवृत्तान्ते कथिते वारिषेणो गृहे नेतुमारब्धः। तेन चोक्तम्-मया पाणिपात्रे भोक्त
व्यमिति । ततोऽसौ सूरदेवमुनिसमीपे मुनिरभूत् । एकदा राजगृह६ समीपे पलाशकुटग्रामे चर्यां स प्रविष्टः । तत्र श्रेणिकस्य योऽग्निभूतिः मन्त्री तत्पुत्रेण पुष्पडालेन दृष्ट्वा स्थापितश्चर्या कारयित्वा स सोमिल्लां निजभार्यां पृष्ट्वा प्रभुपुत्रत्वाद् बालसखित्वाच्च स्तोकमार्गानुव्रजनं कर्तुं वारिषेणेन सह निर्गतः । आत्मनो व्याघुटनार्थ क्षीरवृक्षादिकं दर्शयन् मुहुर्मुहुर्वन्दनां कुर्वन् हस्ते धृत्वानीतो विशिष्टधर्म
श्रवणं कृत्वा वैराग्यं नीत्वा तपो ग्राहितोऽपि सोमिल्लां न विस्म१२ रति। तौ द्वावपि द्वादशवर्षाणि तीर्थयात्रां कृत्वा वर्धमानस्वामि
समवसरणं गतौ। तत्र वर्धमानस्वामिनः पृथिव्याश्च संबन्धिगीतं देवैर्गीयमानं पुष्पडालेन श्रुतं यथा
मइल कुचेली दुम्मगी णाहे पवसियएण।
कह जीवेसइ धणिय धर डझंते हियएण ॥ एतदात्मनः सोमिल्लायाश्च संयोज्य तस्यामुत्कण्ठितश्चलितः। स १८ वारिषेणेन ज्ञात्वा स्थिरीकरणार्थं निजनगरं नीतः । चेलिन्याऽसौ
दृष्ट्वा बारिषेणः किं चारित्राच्चलितः आगच्छतीति संचिन्त्य परीक्षार्थं सरागवीतरागे द्वे आसने दत्ते । वीतरागासने वारिषेणेनोपविश्योक्तम्-मदीयमन्तःपुरमानीयताम् । ततश्चेलिनीमहादेव्या वत्सपालककथा वारिषेणेन अगन्धनसर्पकथा। ततश्चेलिनीमहादेव्या द्वात्रिंशद्भार्याः सालंकारा आनीताः । ततः पुष्पडालो वारिषेणेन भणितः। इदं मदीयं युवराजपदं त्वं गृहाण । तच्छ्रुत्वा पुष्पडालोऽतीव लज्जितः परमवैराग्यं गतः परमार्थेन तपः कर्तुं लग्न इति ॥
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org