________________
कथाकोशः [११]
तत्र मणिरक्षको धृतः । एकदा क्षुल्लकं पृष्ट्वा श्रेष्ठी समुद्रयात्रायां चलितो नगराद् बहिर्निर्गत्य स्थितः । स चौरक्षुल्लको गृहजनमुपकरणनयनव्यग्रं ज्ञात्वार्धरात्रे तं मणि गृहीत्वा चलितः । मणितेजसा मार्ग कोट्टपालैर्दृष्टो धर्तुमारब्धः । तेभ्यः पलायितुमसमर्थः श्रेष्ठिन एव शरणं प्रविष्टो मां रक्ष रक्षेति चोक्तवान् । कोट्टपालानां कलकलमार्ण्य पर्यालोच्य तं चौरं ज्ञात्वा दर्शनोद्वाहप्रच्छादनार्थं भणितं ६ श्रेष्ठिना मम वचनेन रत्नमनेनानीतं रे भवद्भिर्विरूपकं कृतं यद्यस्य महातपस्विनश्चौरोद्घोषणा कृता । ततस्ते तस्य प्रणामं कृत्वा गताः । स च श्रेष्ठिना रात्रौ निर्धाटितः । एवमन्येनापि सम्यग्दृष्टिना - ९ भक्तासमर्थाज्ञानपुरुषादागतदर्शनदोषस्य प्रच्छादनं कर्तव्यम् ॥
[११] उपस्थितिकरणाख्यानकम् |
यथा - मगधदेशे राजगृहनगरे राजा श्रेणिको, राज्ञी चेलनी, १२ पुत्रो वारिषेण उत्तम श्रावकरचतुर्दश्यां रात्रौ कृतोपवासः स्मशाने कायोत्सर्गेण स्थितः। तस्मिन्नेव दिने उद्यानक्रीडागतमगधसुन्दरीविलासिन्या श्रीकीर्तिश्रेष्ठिना परिहितो दिव्यो हारो दृष्टः । ततस्तं १५ दृष्ट्वा किमनेनालंकारेग विना जीवितेनेति संचिन्त्य शय्यायां पतित्वा सा स्थिता । तावद्रात्रौ समागतेन तदासक्तेन विद्यच्चोरेणोतम् — प्रिये, किमेवं स्थितासीति । तयोक्तम् — श्रीकीर्तिश्रेष्ठिनो हारं १८ यदि मे ददासि तदा जीवामि । त्वं च मे भर्ता नान्यथेति श्रुत्वा तां समुद्धार्थ अर्धरात्रौ गत्वा निजकौशल्येन हारं चोरयित्वा निर्गतस्तदुद्योतेन चौरोऽयमिति ज्ञात्वा गृहरक्षकैः कोट्टपालैश्च प्रियमाणः २१ पलायितुमसमर्थो वारिषेणकुमारस्याग्रे तं हारं धृत्वाऽदृश्यो भूत्वा स्थितः । कोपालेश्च तं तथा आलोक्य श्रेणिकस्य कथितम् - देव वारिषेणश्चोर इति श्रुत्वा तेनोक्तम् - मोषकस्यास्य मस्तकं गृह्यता- २४
Jain Education International
२७
For Private & Personal Use Only
www.jainelibrary.org