________________
कथाकोशः [ ९ ]
[९] अमूढदृष्ट्याख्यानकम् ।
यथा - विजयार्धदक्षिणश्रेण्यां मेघकूटनगरे राजा चन्द्रप्रभः, चन्द्रशेखरपुत्राय राज्यं दत्त्वा परोपकारार्थं वन्दनाभक्त्यर्थं च कियती ३ विद्या दधानो दक्षिणमथुरायां मुनि गत्वा गुप्ताचार्यसमीपे क्षुल्लको जातः । तेनैकदा वन्दनाभक्त्यर्थमुत्तरमथुरायां चलितेन गुप्ताचार्य: पृष्टः । किं कस्य कथ्यते । भगवतोक्तम् - सुव्रतमुनेर्वन्दना, वरुणराज- ६ महाराझ्या रेवत्या आशीर्वादश्च कथनीयः, त्रिःपृष्टेनापि तेन एतदेवोक्तम् । ततः क्षुल्लकेनोक्तम् — भव्य सेनाचार्यस्यैकादशाङ्गधारिणोऽन्येषां च नामापि भगवान्न गृह्णाति । तत्र किंचित्कारणं भविष्यतीति संप्रधार्यं तत्र गत्वा सुव्रतमुनेर्भद्वारकाय वन्दनां कथयित्वा तदीयं च विशिष्टं वात्सल्यं दृष्ट्वा अभव्यसेनवसतिकां गतस्तत्र गतस्य भव्यसेनेन संभाषणमपि न कृतम् । कुण्डिकां गृहीत्वा भव्यसेनेन सह १२ बहिर्भूमिं गत्वा विकुर्वणया हरितकोमलतृणाङ्करच्छन्नो मार्गोऽग्रे दर्शितः । तं दृष्ट्वा आगमे किलैते जीवाः कथ्यन्ते इति भणित्वा तृणोपरि गतः । शौचसमये कुण्डिकाजलं शोषयित्वा क्षुल्लकेनोक्तम् — १५ भगवन्, कुण्डिकायां जलं नास्ति तथा विकृतिश्च क्वापि न दृश्यते । अतोऽत्र स्वच्छसरोवरे प्रशस्तमृत्तिकया शौचं कुरु । तत्रापि तथा भणित्वा शौचं कृतवान् । ततस्तं मिथ्यादृष्टि ज्ञात्वा भव्यसेनस्या - १८ भव्यसेन इति नाम कृतम् । ततोऽन्यस्मिन्दिने पूर्वस्यां दिशि पद्मासनस्थं चतुर्मुखं यज्ञोपवीताद्युपेतं देवासुरवन्द्यमानं ब्रह्मरूपं दर्शितम् । तत्र राजादयोऽभव्यसेनादयश्च सर्वे गताः । रेवती तु २१ कोऽयं ब्रह्मा नाम देव इति भणित्वा लोकैः प्रेर्यमाणापि न गता । एवं दक्षिणस्यां दिशि गरुडारूढं चतुर्भुजं चक्रगदाशङ्खासिधारकं वासुदेवरूपम् । पश्चिमस्यां दिशि वृषभारूढं सार्धचन्द्रजटाजूटगौरी- २४ गणोपेतं शङ्कररूपम् । उत्तरस्यां दिशि समवसरणमध्ये प्राति
Jain Education International
For Private & Personal Use Only
२५
९
www.jainelibrary.org