________________
श्री प्रभाचन्द्र-कृतः
कुशला कमलश्रीक्षान्तिकाया श्राविका जिनदत्तभार्यया आकारिता । सा च सर्वं कृत्वा वसतिकां गता । वन्दनाभक्ति कृत्वा आगतेन ३ प्रियदत्तश्रेष्ठिना चतुष्कमवलोक्य अनन्तमती स्मृत्वा गह्वरितहृदयेन गद्गदवचनेन अश्रुपातं कुर्वता भणितम् - यया गृहमण्डनं कृतं तां मे दर्शयेति । ततः सा ततो नीता, मेलापको जातो, जिनदत्त६ श्रेष्ठिना महोत्सवः कृतः । अनन्तमत्या चोक्तम्-तात, इदानीं मे तपो दापय, दृष्टमेकस्मिन्नेव भवे संसारवैचित्र्यमिति । ततः कमलश्रीक्षान्तिकापार्श्वे तपो गृहीत्वा बहुना कालेन विधिना मृत्वा ९ सहस्रारे देवो जातः ॥
विचिकित्साख्यानं यथा लक्ष्मीमत्यास्तथाग्रे कथयिष्यते ॥
[८] निर्विचिकित्साख्यानकम् |
यथा - सौधर्मेन्द्रेण निजसभायां सम्यक्त्वगुणं वर्णयता भरते कुच्छदेशे रौरकपुरे उद्दायनमहाराजस्य उद्दायनमहाराजस्य निर्विचिकित्सागुणः प्रशंसितः । तं परीक्षितुं वासवदेव उदुम्बरकुथितं मुनिरूपं विकृत्य १५ तस्यैव हस्तेन विधिना स्थित्वा सर्वमाहारं जलं च मायया भक्षित्वा अतिदुर्गन्धं बहुवमनं कृतवान् । दुर्गन्धभयान्नष्ठे परिजने प्रतीच्छतो राज्ञस्तद्देव्याश्च प्रभावत्या उपरि छर्दितम्। हा हा विरुद्ध आहारो १८ दत्तो मयेत्यात्मानं निन्दितः । तं च प्रक्षालयतो मायां परिहृत्य प्रकटीभूय पूर्ववृत्तान्तं कथयित्वा प्रशस्य च स्वर्गं गतः । उद्दायनमहाराजो वर्धमानस्वामिपादमूले तपो गृहीत्वा मुक्ति गतः । प्रभावती २१ तपसा ब्रह्मस्वर्गे देवो बभूव ॥
१२
मूढदृष्ट्याख्यानकं यथा ब्रह्मदत्तस्य द्वादशचक्रवर्तिनः । तच्चाग्रे कथयिष्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org