________________
१२
श्री प्रभाचन्द्र-कृतः
समस्तां रसवतीमन्तः प्रविश्य सर्वमन्तः परिशोध्य द्वारं दत्त्वा शीघ्रं तत्क्षणादेव भुक्त्वा द्वारमुद्घाटय भणितम् - रसवतीभाजनानि ३ बहिर्निः सार्यतामिति । ततो राज्ञो महत्याश्चर्ये संपन्ने प्रतिदिनमभिनवामधिकाधिकां विशिष्टां रसवतीं कारयित्वा प्रेषयत्यसौ । ततः षण्मासैर्भस्मकव्याधेः क्रमेणोपशमे संजाते प्रकृते आहारे स्थिते ६ रसवती समस्ता तथैवोद्ध्रयते । ततस्तत्रत्यलोकैर्भणितम् । भो भो योगीन्द्र, किमिति रसवती तथैवोद्ध्रियते । तेनोक्तम् - भगवानिदानीं तृप्तस्तेन स्तोकमेव भुङ्क्ते । एतत्सर्वं तत्रत्यलोकै राज्ञो निवेदितम् । राज्ञा च निर्माल्येन प्रच्छाद्य प्रनालप्रदेशे धूर्तो माणवको धृतः । तेन च स योगी द्वारं दत्त्वा स्वयमेव भुञ्जानो दृष्टः । कथितं च राज्ञः । देव, योगी न किंचिद्देवमवतार्यं भोजयति किंतु द्वारं दत्त्वा १२ स्वयमेव भुङ्क्ते । इति एतदाकर्ण्य राज्ञा रुष्टेन [ भणितम् ] - भो योगिन् मृषावादी त्वम् । न किंचिद्देवमवतार्य भोजयसि । किंतु द्वारं दत्त्वा स्वयमेव भुङ्क्षे । देवस्य नमस्कारं च किमिति न १८ करोषीति । एतदाकर्ण्य योगिनोक्तम् - मदीयनमस्कारमसौ सोढुं न शक्नोति । यो हि वीतरागोऽष्टादशदोषविवर्जितः स एव मदीयनमस्कारं सोढुं शक्नोति तेनाहमस्मै नमस्कारं न करोमि । यदि २० करोमि तदा स्फुटत्यसौ देवः । एतच्छ्रुत्वा राज्ञोक्तम् - यदि स्फुटत्यसौ तदा स्फुटतु कुरु नमस्कारम् । त्वदीयं सामर्थ्यं पश्यामः । ततो योगिनोक्तम् - प्रभाते सामर्थ्यमात्मीयं भवतां दर्शयिष्यामः । २२ ततो राज्ञा एवमस्त्वित्युक्त्वा योगिनं देवगृहमध्ये प्रक्षिप्य शतगुणपरिपाट्या सुभटैः हस्तिघटादिभिश्च देवगृहे महता यत्नेन रक्षितः । योगिनश्च अतिरभसान्मया अपरिभाव्योक्तं न विद्मः किमप्यत्र भवि२४ ष्यतीत्याकुलितान्तःकरणस्य चिन्तयतो रात्रिप्रहरद्वये शासनदेवता अम्बिका आसनकम्पात्समागत्य प्रत्यक्षीभूता । ततस्तयोक्तम्भगवन्मा चित्तमाकुलितं कुरु । यत्त्वयोक्तं तत्सर्वं 'स्वयंभुवा भूत
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org