________________
कथाकोशः [ ४ ]
हितेन भूतले' इत्यादिकं चतुर्विंशतितीर्थंकरदेवानां स्तुतिं कुर्वतः तत्संस्फुरिष्यतीत्युक्त्वा भगवन्तं समुद्धीर्य अदृश्या संजाता । भगवांश्च देवतादर्शनात्संजातपरमसंतोषश्चतुर्विंशतितीर्थंकृतां स्तुति ३ कृत्वा समुल्लसितचित्तो विकसितवदनकमलः परमानन्देन स्थितः । प्रभाते च राज्ञा कौतुहलेन समस्तलोकसहितेन आगत्य देवगृहद्वारnara योगी बहिराकारितः । आगच्छंश्च प्रहृष्टचित्तो विकसित ६ वदनकमलः प्रभाभारसमन्वितो महाप्रतापवांश्च दृष्टः । ततो राज्ञा चिन्तितम् - योगिनो अद्यापूर्वा मूर्तिर्वर्तते । ध्रुवं निर्वाहयिष्यति आत्मीयां प्रतिज्ञामिति । ततो राज्ञा भणितम् - भो भो योगीन्द्र, ९ कुरु देवस्य नमस्कारं पश्यामस्त्वदीयं सामर्थ्यमिति । ततो भगवता 'स्वयंभुवा भूतहितेन भूतले' इत्यादिका स्तुतिः कर्तुमारब्धा । तां च कुर्वतो अष्टमतीर्थंकरस्य श्रीचन्द्रप्रभदेवस्य 'तमस्तमोऽरेरिव १२ रश्मिभिन्नम्' इति स्तुतिवचनमुच्चारयतः स्फुटितं लिङ्गं निर्गता चतुर्मुखप्रतिमा जयकारश्च महान्संपन्नः । ततो राज्ञः सकललोकानां च महत्याश्चर्ये संजाते राज्ञोक्तम् - भो योगिन् अत्यद्भुतसामर्थ्य- १५ समन्वितो अव्यक्तलिङ्गिकः कस्त्वमिति । ततो भगवतोक्तम्काञ्च्यां नग्नाटकोऽहं मलमलिनतनुर्लाम्बुशे पाण्डुपिण्ड : पुण्ड्रोङ्रे शाक्यभिक्षुर्दशपुरनगरे मृष्टभोजी परिव्राट् । वाणारस्यामभूवं शशधरधवलः पाण्डुराङ्गस्तपस्वी राजन् यस्यास्ति शक्तिः स वदतु पुरतो जैननिर्ग्रन्थवादी ॥१॥ पूर्व पाटलिपुत्रमध्यनगरे भेरी मया ताडिता पश्चान्मालवसिन्धु ठक्कविषये काञ्चीपुरे वैडुषे [वैदिशे] | प्राप्तोऽहं करहाटकं बहुभर्विद्योत्कटैः संकटं
वादार्थी विचराम्यहं नरपतेः शार्दूलवत्क्रीडितम् ||२|| इत्युक्त्वा कुघोषवेषं परित्यज्य निर्ग्रन्थजैनलिङ्ग लघुपिच्छिकासमन्वितं प्रकाश्य एकान्तवादिनः सर्वाननेकान्तवादेन विनिर्जित्य
Jain Education International
For Private & Personal Use Only
१३
१८
२१
२४
www.jainelibrary.org