________________
कथाकोशः [४] परित्यज्य उत्तरापथाभिमुखो गच्छन् पुण्ड्रनगरे समायातः। तत्र च वन्दकानां बृहद्विहारे महासत्रशालां दृष्ट्वा अत्र मदीयभस्मकव्याधेरुपशमो भविष्यतीति मत्वा वन्दकलिङ्गं धृतम् । तत्रापि तद्व्याध्यु- ३ पशमहेतुभूतविशिष्टतराहारासंपत्तेस्ततो निर्गत्योत्तरापथाभिमुखो नानानगरपामान् पर्यटन् दशपुरनगरं प्राप्तः । तत्र च भगवतां महामठं विशिष्टदातृभिः परमभक्त्या प्रतिदिनं संपादितविशिष्टमृष्टाहारो- ६ पभोक्तृदिव्यानेकभगवल्लिङ्ग समाकुलं दृष्ट्वा वन्दकलिङ्गं परित्यज्य भगवल्लिङ्गं धृतम् । तत्रापि भस्मकव्याध्युपशमविधायकस्य प्रचुरतरविशिष्टाहारासंप्राप्तेस्ततोऽपि निर्गत्य नानादिग्देशनगरपामादीन्प- ९ र्यटन् वाणारस्यां गतः । तत्र च कुलघोषोपेतं' योगिलिङ्गं धृत्वा वाणारस्यां मध्ये पर्यटता शिवकोटिमहाराजाधिराजेन कारितं दिव्यशिवायतनं प्रचुरतराष्टादशभक्ष्यभोजननैवेद्यसमन्वितं दृष्ट्वा १२ । चिन्तितम् । अत्रास्मदीयभस्मकव्याधरुपशमो भविष्यतीति । एतस्मिन्प्रस्तावे देवस्य पूजाविधानं कृत्वा नैवेद्यं बहिःक्षिप्यमाणं दृष्ट्वा हसित्वा भणितम्-किमत्र कस्यापि सामर्थ्यं नास्ति येन १५ देवमत्रावतार्य राज्ञा परमभक्त्या संपादितं दिव्याहारं भोजयतीति । एतदाकर्ण्य तत्रत्यलोकैर्भणितम्-किं भवतो देवतामवतार्य भोजयितुं सामर्थ्यमस्ति येनेदं वदति भवान् । योगिना चोक्तमस्त्येव । १८ ततस्तत्रत्यलोकै राज्ञः कथितम्-देव योगिनैकेन भवदीयदेवस्य पूजाविसर्जनसमये दिव्यं नैवेद्यं बहिः क्षिप्यमाणं दृष्ट्वा भणितम्-- देवमहमत्रावतार्य एवंविधं दिव्याहारं भोजयामीति । एतदाकर्ण्य २१ । राजा संजातकौतुको दिव्यां रसवती दधिदुग्धघृतघटशतैः सहितां प्रचुरखण्डशर्कराइक्षुरसादिसमन्वितां गृहीत्वा समायातः। ततो योगी भणितः-भोजयतु भगवान् देवम् । एवं करोमीत्युक्त्वा तेन २४
१. कुलघोशे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org