________________
श्री- प्रमाचन्द्र-कृतः
भगवतोक्तम्-यदि त्वं व्याधि स्फेटयसि तदा संसारव्याधि मे स्फेटयेत्याकर्ण्य तेनोक्तम् - नाहं तत्स्फेटने समर्थः, तत्रभवन्त एव ३ समर्थाः । अहं तु शरीरव्याधिमात्रस्फेटन एव समर्थ इति । भगवतोक्तम् - किमशुचौ निर्गुणे अशाश्वते शरीरे व्याधिस्फेटनेन । तत्स्फेटने हि न किंचिद्वैद्यान्वेषणेन निष्ठीवनसंपर्कमात्रेणापि तस्य ६ स्फेटयितुं शक्यत्वादित्युक्त्वा निष्ठीवनसंस्पर्शमात्रेण बहुव्याधिमपनीय सुवर्णशलाकातुल्यो बाहुस्तस्य दर्शितस्ततस्तेन मायामुपसंहृत्य प्रणम्य चोक्तम् - भगवन्यादृशं त्वदीयं शरीरादौ परमनिस्स्पृहत्वेन ९ विशिष्टचारित्रानुष्ठानं निजसभायां सौधर्मेन्द्रेण व्यावणितं तादृशमेवेदमिहागत्य मया दृष्टमतो धन्यस्त्वम्, मनुष्यजन्म तवैव सफलमिति प्रशस्य प्रणम्य च मदनकेतुदेवः स्वर्गं गतः । सनत्कुमार१२ मुनिस्तु परमवैराग्यात्पञ्चविधपरमचारित्रानुष्ठानेन चारित्रस्योद्योतनादिकं कृत्वा घातिकर्मक्षयं विधाय केवलमुत्पाद्य क्रमेणाघातिकर्मक्षयं कृत्वा मोक्षं गत इति ॥
१५
१०
[४] समन्तभद्रस्वामिना च उभयोरुद्योतनं
कृतमस्य कथा |
दक्षिणकाञ्च्यां तर्कव्याकरणादिसमस्तशास्त्रव्याख्याता दुर्धरा१८ नेकानुष्ठानानुष्ठाता श्रीसमन्तभद्रस्वामी नाम महामुनिस्तीव्रतरदुःखप्रदप्रबलासद्वेद्यकर्मोदयात्समुत्पन्नभस्मकव्याधिना अहर्निशं संपीड्यमानश्चिन्तयति । अनेन व्याधिना पीड्यमाना वयं दर्शनस्योपकारं २१ कर्तुमसमर्थाः । अतस्तदुपशमविधिः कश्चिदनुष्ठातव्यः । स च तदुपशमविधिः स्निग्धप्रवरप्रचुराहारोपयोगान्नान्यो भवितुमर्हतीति । तत्प्राप्तेश्चात्राभावात् यस्मिन्देशे यत्र स्थाने येन च लिङ्गेन २४ तथाविधाहारप्राप्तिर्भवति तदाश्रयणीयमिति संप्रधार्य काञ्चीनगरीं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org