________________
कथाकोशः [३] कारितौ देवौ । ताभ्यामागत्य तद्रूपं दृष्ट्वा विषादः कृतः । हा कष्ट, यादृशं प्राक्तनं मज्जनके प्रच्छन्नाभ्यामावाभ्यां दृष्टं रूपं न तादृशमिदानींतनमतोऽशाश्वतं सर्वमिति तच्छत्वा मण्डनकारिणान्यैश्च ३ सेवकैरुक्तम्-न किंचित्तदानींतनाद्रपादिदानींतनस्य रूपस्य वैलक्षण्यमस्माकं प्रतिभाति । एतदाकर्ण्य तद्वलक्षण्यप्रतीत्यर्थं जलभृतं कलशं राज्ञोऽने तेषां दर्शयित्वा पश्चात्तान्बहिः प्रेषयित्वा चक्रवर्तिनः ६ पश्यतस्तृणशलाकया बिन्दुमेकं ततोऽपनीय तेषां कलशो दर्शितः । कीदृशः प्रागिदानी च कलश इति च ते पृष्टाः । ततस्तैरुक्तम्-तादृशः एवायं कलशो जलपरिपूर्णो मनागप्यनीदृशो न भवतीति । एत- ९ च्छ्रुत्वा देवाभ्यामुक्तम्-भो राजन्, यथा जलबिन्दुरपगतोऽप्येतैर्न लक्ष्यते तथा भवद्रूपं मनाग्गतमपि न लक्ष्यते इति । ततश्चक्रवर्ती वैराग्यं गत्वा देवकुमारपुत्राय राज्यं दत्त्वा त्रिगुप्तमुनिपावें तपो १२ गृहीत्वा उग्रोग्रतपः कुर्वतः पञ्चप्रकारं चारित्रमनुतिष्ठतो विरुद्धाहारसेवनात्सर्वस्मिन् शरीरे कण्डूप्रभृतयोऽनेकरोगाः समुत्पन्नाः । तथाप्यसौ शरीरेऽतिनिस्स्पृहत्वाच्छरीरचिन्तामकुर्वन्नुत्तमं चारित्रमेवानु- १५ तिष्ठति । सौधर्मेन्द्रश्च निजसभायां पञ्चप्रकारं चारित्रं व्याचक्षाणो मदनकेतुदेवेन पृष्टः-देव, भरतक्षेत्रे उक्तप्रकारचारित्रस्यानुष्ठाता किं कोऽप्यस्ति न वेति । ततस्तेनोक्तम्-सनत्कुमारचक्रवर्ती षट्खण्ड- १८ पृथ्वीं त्यक्त्वा शरीरादावतिनिस्स्पृहो भूत्वा तदनुष्ठाता तिष्ठतीति । एतदाकर्ण्य मदनकेतुदेवेन चात्रागत्य महाटव्यामनेकव्याध्यभिभूतशरीरं सनत्कुमारमुनि दुर्धरमनेकप्रकारं चारित्रमनुतिष्ठन्तमालोक्य २१ शरीरादौ निःस्पृहत्वगुणं तदीयं परीक्षितुं वैद्यरूपं धृत्वा समस्तव्याधीन् स्फेटयित्वा नीरोगं दिव्यं शरीरं करोमीति मुहुर्मुहुर्बुवाणो भगवतोऽने पुनःपुनरितस्ततो गच्छन् भगवता पृष्टः-कस्त्वम् , २४ किमर्थं चात्र निर्जनप्रदेशे फूत्कारं करोषीति । ततस्तेनोक्तम्-वैद्योऽहं भवतां समस्तव्याधिमपनीय सुवर्णशलाकासदृशं शरीरं करोमीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org