________________
श्री प्रभाचन्द्र कृतः
धर्माचार्यस्य पार्श्वे छात्रवृत्त्या स्थितौ स चोपरितनभूमौ' विजातीयं परिशोध्य वन्दकानां बौद्धव्याख्यानं करोति । तौ चाज्ञौ भूत्वा मातृकां पठन्तौ तदाकर्णयतः । अकलङ्कदेवश्च तयोर्मध्ये एकसंस्थो निःकलङ्को द्विसंस्थश्चिन्तयति । एवमेकदा तद्व्याख्यानयतस्तस्य दिग्नागाचार्येणानेकान्तं दूषयता पूर्वपक्षतया सप्तभङ्गीवाक्ये लिखि६ तेऽशुद्धत्वात्परिज्ञानं न संभवति । ततो व्याख्यानं संवृत्य स व्यायामे गतः। अकलङ्कदेवेन च तद्वाक्यं शोधित्वा धृतम् । तेन चागत्य तद्वाक्यं शोधितं दृष्ट्वोक्तम् — कश्चिज्जैनो यथावज्जैनमतपरिज्ञाता ९ वन्दकवेषधारी बौद्धमधीयानो धूर्तस्तिष्ठति । स परिशोध्य मार्यतामित्युक्त्वा शपथादिना सर्वेऽपि परिशोधिताः । पुनर्जन प्रतिमोल्लङ्घनं कारिताः । अकलङ्क देवेन प्रतिमोपरि सूत्रं प्रक्षिप्य सावरणेय१२ मिति संकल्पं कृत्वा तदुल्लङ्घनं कृतम् । ततः कथमपि जैनमलक्ष
३
४
२
यता पुनः कांस्यभाजनानि बहूनि एकत्र गोण्यां निक्षिप्य एकैकस्य वन्दकस्य छात्रकस्य च शयनस्य समीपे एकैकमुपासकादिकं दत्त्वा १५ तानि कांस्यभाजनानि दूरादुत्क्षिप्य निक्षिप्तानि । ततो रौद्रे महति तच्छब्दे समुत्थिते अकलङ्कनिःकलङ्कौ पञ्चनमस्कारं स्मरन्तावुत्थितौ । ततस्तौ बौद्धा [ चार्य ] समीपे नीतौ । १८ भणितं च - भो भो आदेशिन्नेतौ तौ धूर्ती छात्रवेषधारिणौ जैनौ लब्धाविति श्रुत्वा तेनोक्तम्- सप्तमभूमावेतौ धृत्वा पश्चाद्रात्रौ मारयितव्याविति । ततस्तौ सप्तमभूमौ नीत्वा धृतौ । ततो २१ निःकलङ्कनोक्तम् — भो अकलङ्कदेव, अस्माभिर्गुणानुपार्थं दर्शनस्योपकारः कश्चिदपि न कृतः । एवमेव मरणमायातमिति । एतच्छ्रुत्वा अकलङ्कदेवेनोक्तम् — मा विसूरय । जीवनोपायोऽद्यको
२४ १. सु च्चो २. बौद्धा तत्समीपे
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org