________________
कथाकोशः [२] विद्यते । इदं छत्रं हस्तेन धृत्वा आत्मानं प्रक्षिप्यावां गृहीतवातं छत्रं गत्वा यत्र भूमौ लगिष्यति ततो निर्गत्य यास्याव इति पर्यालोच्य रात्रावेतत्सर्वं कृत्वा निर्गत्य गतौ । अर्धरात्रे गते मारणार्थं ३ यावत्तावन्वेषितौ तावन्न दृष्टौ । अथ उपरि वाटिकायां पत्तने चान्वेष्यमाणौ तौ न दृष्टौ । ततो निर्गताविति ज्ञात्वा तत्पृष्ठतोऽश्ववारा लग्नाः । उच्चलितधूलिरजो दृष्ट्वा तानागच्छतो ज्ञात्वा निःकलङ्के- ६ नोक्तम्-भो अकलङ्कदेव, त्वमेकसंस्थो महाप्राज्ञो दर्शनोपकारकरणार्थमत्र पद्मिनीषण्डमण्डिते सरोवरे प्रविश्यात्मानं रक्षय । मां मार्गे गच्छन्तं दृष्ट्वा मारयित्वा एते व्याघुटन्ति लग्नाः। इति ९ तद्वचनादकलङ्कदेवो झटिति सरोवरे प्रविश्य पद्मिनीपत्रं मस्तकोपरि धृत्वा स्थितः । निःकलङ्कः शीघ्रं नश्यन् रजकेन कर्पटानि प्रक्षालयता उच्चलितधूलिरजो दृष्ट्वा क्षुभितचित्तेन पृष्टः । किमर्थं १२ भवान्नश्यतीति । तेनोक्तम्-शत्रुबलं पश्यैतदागच्छति । तत्तु यं पश्यति तं मारयति । तद्भयादहं नश्यामीति श्रु त्वा सोऽपि तेनैव सह नष्टः । नश्यन्तौ तौ द्वौ धृत्वा मारयित्वा उत्तमाङ्गं गृहीत्वा च १५ पृष्ठतो लग्ना व्याघुट्य गताः। ततो अकलङ्गदेवः सरोवरान्निर्गत्य गच्छन् कतिपयदिनैः कलिङ्गदेशे रत्नसंचयपुरं प्राप्तः। तत्र राजा हिमशीतलो, राज्ञी मदनसुन्दरी, स्वयंकारितमहाचैत्यालये जिन- १८ धर्मप्रभावनारता फाल्गुनाष्टम्यां रथयात्रां कारयन्ति, संघश्रीवन्दकेन विद्यादात्तेन राज्ञोऽग्रे भणितम् । जिनस्य रथयात्रा न कर्तव्या जिनदर्शनस्यैवासंभवादित्युक्त्वा मुनीनां पत्रं दत्तम् । ततो राज्ञोक्तम्- २१ आत्मीयं दर्शनं समर्थयित्वा रथयात्रा प्रिये कर्तव्या नान्यथेति । एतच्छत्वा राज्ञी उद्विग्ना संजाताभिमाना वसतिकायां गता। मुनयश्च पृष्टाः । किं क्वापि कश्चिदस्मद्दर्शने एतस्य प्रतिमल्लोऽस्ति, य २४ इमं जित्वा मम मनोरथं पूरयतीति । मुनिभिरुक्तम्-दूरे मान्याखेटादावेतस्मादप्यधिका महापण्डिता जैनदर्शने सन्तीति । एतदाकर्ण्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org