________________
कथाकोशः [२] मेव धर्म इति दर्शनमोहक्षयोपशमविशेषवशात्पन्नविशिष्टसम्यग्दर्शनो जिनोक्तं तत्त्वं चेतसि पुनः पुनश्चिरं परिभावयन् द्विजैर्भणितः-मीमांसार्थ एव तात्पर्यतश्चेतसि चिन्त्यताम्, किं जैनमतार्थ- ३ चिन्तयेति । ततः पात्रकेसरिणोक्तम्-जैनमतमेव सर्वमतेभ्यः श्रेष्ठम्, अतो भवद्भिरपि मिथ्याभिनिवेशं परित्यज्य तत्रैव रतिः कर्तव्येति विवादे सति समस्तानपि तान् राज्ञोऽग्रे वादेन जित्वा ६ जैनमतं समर्थ्यात्मनः सम्यक्त्वगुणः प्रकाशितः । अन्यमतनिराकरणप्रवणो जिनेन्द्रगुणसंस्तुतिस्तवश्च कृतः । तं च तथाभूतं महापण्डितं दृष्ट्वा अवनिपालादयो गृहीतसम्यक्त्वा जिनधर्म एव रताः संजाता ९ इति ॥
[२] अथ ज्ञानोद्योतनकथा । मान्याखेटनगरे राजा शुभतुङ्गो, मन्त्री पुरुषोत्तमनामको, १२ भार्या पद्मावती, पुत्रावकलङ्कनिष्कलङ्कौ । एकदा नन्दीश्वराष्टम्यां पितृभ्यां रविगुप्ताचार्यपार्वेऽष्टदिनानि ब्रह्मचर्यं गृहीतम् । पुत्रयोरपि प्रणतोत्तमाङ्गयोः क्रीडया ब्रह्मचर्यं दापितम् । कतिपयदि विवाहो- १५ पक्रमसंप्रदानादिकं दृष्ट्वा पुत्राभ्यां पिता भणितः–तात, किमर्थोऽयं विवाहोपक्रमः क्रियते। पित्रोक्तम्-भवतोः परिण यनार्थम् । ननु तात, त्वया आवयोर्ब्रह्मचर्यं दापितम्, तत्कि विवाहेन । पित्रोक्तम्- १८ क्रीडया तद्भवतोर्मया दापितम् । ननु तात, धर्मे का क्रीडा । ननु नन्दीश्वराष्टदिनान्येव मया भवतो पितम्, न भवता भगवता वा तथाविवक्षितत्वात् । तत इह जन्मन्यावयोः परिणयने निवृत्तिरस्ती- २१ त्युक्त्वा सकलासद्व्यापारान्परिहृत्याशेषशास्त्राणि ताभ्यामधीतानि। बौद्धदर्शनपरिज्ञातुस्तथाभूतस्य कस्यचिन्मान्याखेटे अभावात्तत्परिज्ञानार्थमतीवाज्ञच्छात्ररूपं धृत्वा महाबोधिस्थाने महाबौद्धपरिज्ञातु- २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org