________________
श्री-प्रभाचन्द्र-कृतः
[१] तत्र सम्यक्त्वोद्योतनकथा । यथा--मगधदेशे अहिच्छत्रनगरे राजा अवनिपालो महामण्ड३ लेश्वरः पञ्चशतद्विजपण्डितैः परिवृतः सातिशयं राज्यं कुर्वाणस्तिष्ठति । द्विजाश्च सर्वेऽपि संध्याद्वये संध्यावन्दनां कृत्वा श्रीपार्श्वनाथं
च दृष्ट्वा निजनिजकर्मसु प्रवर्तन्ते। एकदा चारित्रभूषणमुनेः ६ श्रीपार्श्वनाथस्याग्रे देवागमेनापराले देववन्दनां कुर्वतः पात्रकेसरिणा
सह महापण्डिताः समस्तप्रधानाः संध्यावन्दनां कृत्वा श्रीपार्श्वनाथं द्रष्टुमागताः। देवागमस्तवं श्रुत्वा [पात्रकेसरी ] मुनि पृष्टवान्भगवन्, अर्थ बुध्यसे । भगवतोक्तम्-नाहं बुध्ये । ततस्तेनोक्तम्पुनः पठ । ततो भगवता विशिष्टपदविश्रामैवागमस्तवो भणितः ।
पात्रकेसरिणश्च एकसंस्थत्वेनैकहेलयैव शब्दतोऽशेषदेवागमावगाह१२ कत्वसंभवात् शनैः शनैस्तदर्थं चेतसि परिभावयतो दर्शनमोहक्षयोप
शमवशादुत्पन्नतत्त्वार्थश्रद्धानस्य एतत्प्रतिपादितमेव जीवाजीववस्तु
स्वरूपं परमार्थतो नान्यदिति गृहे गत्वा रात्रौ वस्तुस्वरूपं पराम१५ शतोऽनुमानविषये संशयः संजातः । अत्र हि जीवादिवस्तुप्रमेयं
प्रतिपादितम् । तत्त्वज्ञानं च प्रमाणमनुमानलक्षणम् । तत्कीदृशं जैनमते संभवतीत्येवं मुहुर्मुहुः संशयं कुर्वाण: पद्मावतीदेव्या आसनकम्पादागत्य भणित:-भो पात्रकेसरिन्, प्रातः श्रीपार्श्वनाथदर्शनादनुमानलक्षणनिश्चयो भविष्यतीत्युक्त्वा श्रीपार्श्वनाथफणामण्डपे अनुमानलक्षणश्लोको लिखितः
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ।
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ।।
इति देवतादर्शने संजाते जैनमते अतिशयेन रुचिस्तस्य २४ संजाता। प्रातश्च देवं पश्यतः फणामण्डपेऽनुमानलक्षणश्लोकदर्श
नात्तल्लक्षणनिश्चये सति संजातहर्षः पुलकितशरीरोऽयमेव देवोऽय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org