________________
श्री- प्रभाचन्द्र-कृत:
कूर्मदृष्टान्तः | ८ |
अर्धतिर्यग्लोकप्रमाणे स्वयंभूरमणसमुद्रे तत्प्रमाणे प्रच्छादिते ३ कालेन नन्दनामा कूर्मः । वर्षसहस्रं भ्रमता सूक्ष्मचर्मरन्ध्रेण तेनादित्यो दृष्टः । कदाचित्पुनराहूय निजकूर्मस्य तद्दर्शयन् स [न] पश्यति । न नष्टं मनुष्यत्वं प्राप्यते । पूर्वदेशे महातडागे ऽप्ययं कथयितव्यः ॥ .
युगदृष्टान्तः | ९|
प्रमाणयोजनलक्षद्वयविस्तीर्णे पूर्वलवणसमुद्रे युगच्छिद्रात्कथंचित्समिला पतिता । तथा अपरसमुद्रे युगं च तत्र भ्रमति । तस्मि९ न्नेव छिद्रे कथंचित्समिला प्रविशति । न नष्टं मनुष्यत्वं प्राप्यते ॥
१३०
परमाणुदृष्टान्तः | १० |
सकलचक्रवर्तिनां चतुर्हस्तप्रमाणं दण्डरत्नं भवति । कालेन १२ विचलितास्तस्य परमाणवः यथाविन्यासं पुनरपि मिलन्ति न नष्टं मनुष्यत्वं प्राप्यत इति ज्ञात्वा विवेकिना भवकोटिषु मनुष्यत्वं दुर्लभं परिज्ञाय श्रीधर्मे महानादरो विधेयः ॥
१५
[९०२२] अच्छीणि संघसिरिणो ।
[ अच्छीणि संघसिरिणो मिच्छत्तणिकाचणेण पडिदाणि । कालगदो विय संतो जादो सो दीहसंसारे ॥७३२ ॥ ] अस्य कथा -- दक्षिणापथे अन्ध्रदेशे श्रीपर्वतसमीपे पश्चिमदिशि तुङ्गभद्रा नदीद्वय दक्षिणतटे पल्लरनगरे राजा यशोधरो, राज्ञी वसुंधरा, पुत्रा अनन्तवीर्यश्रीधरप्रियंवदाः । प्रासादस्थितो २१ राजा पञ्चवर्णबहुकूटयुक्तमुच्चैः मेघमालोक्य ईदृशं जिनभवनं कारयामीति बुद्ध्या यावद्भूमावालिखति तावत्स मेघो विलीनः । स सर्वमनित्यं मत्वा अनन्तवीर्यश्रीधराभ्यां क्रमेण त्यक्तं राज्यं
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org