________________
कथाकोशः [९.०२१] अथवा। तथाभूते तस्मिन्नेव नगरे निर्लक्षणनामा द्यूतकारः स्वप्नान्तरे ऽपि न जयति। एकदा च सर्वकपदकांस्तेन जित्वा कार्पटिकानां दत्ताः। ते च गृहीत्वा दशसु दिशासु गताः कदाचित्का- ३ पटिकादीनां पूर्ववत्तत्र मेलापको घटते । न नष्टं मनुष्यत्वं प्राप्यते ।।
रत्नदृष्टान्तः ।। ये भरतसगरमघवत्सनत्कुमारशान्तिकुन्थुअरसुभौममहापद्महरि- ६ षेणजयसेनब्रह्मदत्ताश्चक्रवर्तिनस्तेषां चूलामणयो देवैर्गृहीताः । पुनरपि कथंचिद्भरतक्षेत्रे त एव चक्रिणस्त एव मणयस्ते पृथ्वीकायिका जीवास्ते देवाः स्युः । न नष्टं मनुष्यत्वं प्राप्यते । अथवा सागरदत्तहस्तसमुद्रपतितरत्नदृष्टान्तः॥
__स्वप्नदृष्टान्तः ।६। अवन्तीदेशोज्जयिन्यां हल्लनामा कावटिक अटव्याः सदा १२ काष्ठान्यानयन् एकदा भारं भृत्वा बाहरिकायामुद्याने सुप्तः। सकलचक्रवर्ती स्वप्ने जातः। आगत्य भार्ययोत्थापितः। स कदाचित्तत्र सुप्तस्तथा चक्रवर्ती पुनर्भवति । न नष्टं मनुष्यत्वं प्राप्यते ॥ १५
चक्रदृष्टान्तः ।७।। उपर्युपरि द्वाविंशतिस्तम्भाः। स्तम्भे स्तम्भे चैकैकं चक्रम् । चक्रे चक्रे आराणामेकैकसहस्रम् । आरे आरे चैकैकच्छिद्रम् । चक्राणां १८ विपरीतभ्रमणात् छिद्रमेलापके तदुपरि राधा विध्यन्ते। काकन्दीनगर्यां राजा द्रुपदस्तत्पुत्री द्रौपदी स्वयंवरे अर्जुनेन राधावेधं कृत्वा परिणीता । पुनस्तदपि घटते न नष्टं मनुष्यत्वं प्राप्यते ॥ ___ अथवा अयोध्यायां सुभौमचक्रिणः सुदर्शनचक्रस्य यक्षसहस्रं रक्षणमभूत् । पुनः कदाचित्स तत्र चक्रान्ते पृथ्वीकायिकास्तथा विन्यस्तास्ते यक्षा व्यतिघटन्ते । न नष्टं मनुष्यत्वं प्राप्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org