________________
१२८
श्री-प्रभाचन्द्र-कृतः स्तम्भस्याश्रयः षण्णवतिः ( ९६ ) । एकैकस्यामश्रौ द्यूतकारपेटिकैका पाशाभ्यां रमते । तत्रैकदा शिवशर्मब्राह्मणेन द्यूतकाराः प्रार्थिताः । ३ यदा सर्वत्रैकादाय एकवारेण पतति तदा जितं द्रव्यं मह्यं दातव्य
मिति । तैरेवमस्त्विति भणिते तस्मिन्नेव दिने सर्वत्रैकदायः पतितस्तद्रव्यं सर्वं लब्धवान् । अन्यदा पुनरपि स तथा प्राप्नोति। न ६ नष्टं मनुष्यत्वं प्राप्यते ।।
धान्यदृष्टान्तः ।३। जम्बूद्वीपप्रमाणपल्या योजनैकसहस्रमधःखातं धान्यसर्षपैनिबिडं ९ भृतम्। दिने दिने पुरुषेणैकैकमपनीयमाने तत्क्षीयते। न नष्टं
मनुष्यत्वं प्राप्यते ।। ____ अथवा विनीतदेशे अयोध्यानगर्यां राजा प्रजापालः। यो मगधदेशे राजगृहनगरे राजा जितशत्रुः स प्रजापालस्योपरि चलितः। सर्वप्रजायाः सर्वधान्यं प्रजापालेन कोष्ठागारे मिश्रितं संख्यया धृतम् । अयोध्यायां गृहीतुमसमर्थे व्याधुटिते जितशत्रौ प्रजया निजधान्ये याचिते भणितं राज्ञा-परिज्ञाय निजं निजं गृहाण। तदपि स भवति। न नष्टं मनुष्यत्वं प्राप्यते ।।
द्यूतदृष्टान्तः ।।। शतद्वारनगरे द्वाराणां पञ्चशतानि । एकैकद्वारे शालानां पञ्चशतानि ( ५०० )। शालायां पञ्च पञ्च द्यूतकारशतानि । एकश्चयी
नामसहिकः सर्वकपदकान् जित्वा सर्वदिशासु सर्वे द्यूतकारास्ते २१ गताः। पुनरपि चयी सर्वेषां मेलापकं कथंचित्करोति । न नष्टं
मनुष्यत्वं प्राप्यते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org