________________
कथाकोशः [९०*२१]
१२७ [९०२१] चोल्लयपासयधणं जूअंरदणाणि सुमिण चक्वं वा। कुम्मं जुगपरिमाणू दस दिटुंता मणुयलंभे ॥ [ ४३०२२ ]
चोल्लकदृष्टान्तः ।। विनीतदेशे अयोध्यानगर्यां अरिष्टनेमितीर्थे ब्रह्मदत्तचक्रवर्तिना बहुग्रामसहस्राणां सहस्रभटनामा सामन्तः कृतः। तस्य राज्ञी सुमित्रा, ६ पुत्रो वासुदेवो ऽशिक्षितः। मृते सहस्रभटे तत्पदमन्यस्य दत्तम् । अयोध्यायां जीर्णकुटीरकस्थितया जनन्या वसुदेवो दूरशीघ्रधीवरेणेव झोलिकायां च ताम्बूललड्डुकादिवहनेन सहस्रमन्त्रं कारयित्वा कुलस्वामी चक्रिणो ऽङ्गजीवनसेवायां धृतः। एकदा दुष्टाश्वेनाटवीं चक्रवर्ती नीतः। सह नियूंढेन च वसुदेवेनोपचारः कृतः। पृष्टेन कथितम्-सहस्रभटस्य पुत्रो ऽहम् । व्याधुटिता चक्रिणा तस्य १२. निजकङ्कणं दत्त्वा नगरीमागत्य तलारो भणितः-भो मदीयं कङ्कणं नष्टं गवेषयथ । अथ टिण्टे कङ्कणं कथयन् वसुदेवस्तलारेण चक्रिणो दर्शितः। उक्तः स चक्रिणा-याचय वाञ्छितं ददामि । तेनोक्तम्- १५ मदीयमाता जानाति । तथा आगत्य चोल्लूकभोजनं याचितम् । पृष्टं चक्रिणा-कीदृशं तत् । देव, प्रथमं भवद्गृहे गौरवेण स्नानभोजनाभरणद्रव्यादिकं प्राप्य पश्चात्तवान्तःपुरमुकुटे बद्धादिपरिवार- १८ गृहे ऽपि क्रमेण प्राप्य पुनरपि क्रमेणैवं तदपि पुनः संभाव्य तेन नष्टं मनुष्यत्वम् ॥
पाशकदृष्टान्तः ।२। मगधदेशे शतद्वारनगरे राजा शतद्वारः । तेन नगरे कारितं [?] द्वारे द्वारे च स्तम्भानांमेकादशैकादश सहस्राणि ( ११००० ) । एकैकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org