________________
श्री-प्रमाचन्द्र-कृतः [९०.१८] पाणागारे दुद्धं पिबंतओ बंभणो चेव । [ दुज्जणसंसग्गीए संकिज्जदि संजदो वि दोसेण । पाणागारे दुद्धं पियंतओ बंभणो चेव ॥३४६॥]
अस्य कथा-वत्सदेशे कौशाम्बीपुर्यां राजा धनपालो, राज्ञी वसुपाली, कल्यपालः पूर्णभद्रः, पत्नी मणिभद्रा, पुत्री वसुमित्रा । तस्या विवाहेन नगरजनं भोजयित्वा पूर्णभद्रेण परममित्रं चतुर्वेदषडङ्गविच्छिवभूतिनामा ब्राह्मणो निमन्त्रितः । तेनोक्तम्---अकल्पते अस्माकं भवद्गृहे भोक्तुं यतः
शूद्रान्नं शूद्रशुश्रूषा शूद्रप्रेषणकारिता।
__ शूद्रदत्ता च या वृत्तिः पर्याप्तं नरकाय तत् ।। पूर्णभद्रेणोक्तम् -ब्राह्मणगृहनिष्पन्नदुग्धानेन भोजनं कुरु । एवं १२ कृत्वोद्याने पूर्णभद्रस्य दूरप्रदेशे गौल्यदुग्धं पिबन्तं शिवभूतिमालोक्य
लोकैः सुरापानमिति राज्ञः कथितम् । स सत्यं ब्रुवन्नपि राज्ञा वमनं कारितो दुर्गन्धवमनान्निर्धाटितः ॥
[९० १९] आसयवसेण एवं । [ आसयवसेण एवं पुरिसा दोसं गुणं व पावंति ।
तम्हा पसत्थगुणमेव आसयं अल्लिएज्जाह ॥३५६॥ ] १८
अत्र कथा--अङ्गदेशे काम्पिल्यनगरे राजा सिंहध्वजो राज्ञी वप्रा श्राविका नन्दीश्वरयात्रां प्रतिवर्ष कारयति । सा वप्रा राज्ञी पुत्रो हरिषेणो द्वितीयराज्ञी लक्ष्मीमती वल्लभा। तया सौभाग्यतया भणितो राजा-मदीयो ब्रह्मरथो अद्य दिने भ्रमतु । तेन वारितो वप्राया जिनरथः। रथे भ्रामिते पारणादिकं करिष्यामीति । इति
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org