________________
कथाकोशः [९०*२०]
१२५ गृहीतप्रतिज्ञा भोजनार्थे हरिषेणेनागत्य कारणं पृष्टा। ततो यथार्थमाकर्ण्य निर्गतो हरिषेणो विद्युच्चोरपल्लिकायां प्रविष्टः। तमालोक्यैकशुकेनोक्तम्-अमुं राजपुत्रं धरथ । ततो निर्गत्य शतमन्युता- ३ पसपल्लिकायां प्रविष्टः । तत्राप्यालोक्यैकशुकेन यत्राकृतिस्तत्र गुणा वसन्तीत्याकलय्योक्तमस्योत्तमराजपुत्रस्य गौरवं कुरुथ । ततो हरिषेणेन पूर्वशुकस्य दुष्टत्वं निवेद्य भणितं च। किं गौरवं मे ६ कारयसीति । कथितं शुकेन--
माताप्येका पिताप्येको मम तस्य च पक्षिणः। अहं मुनिभिरानीतः स च नीतो गवाशनैः ॥१॥
गवाशनानां स गिरः शृणोति अहं च राजन् मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवता हि दृष्टं
संसर्गजा दोषगुणा भवन्ति ।।२।। इत्याश्रयवशात् । पूर्वं शतमन्यतापसश्चम्पायां राजा, राज्ञी नागवती, पुत्रो जनमेजयः, पुत्री मदनावली । जनमेजयाय राज्यं दत्त्वा सो ऽयं १५ च शतमन्युतापसो ऽभूत् । मदनावल्या निमित्तिना आदेशः कृतः। सकलचक्रवर्तिनः स्त्रीरत्नं भविष्यत्येषा। ऊड्रविषये राजा कलकलस्तेनादेशमाकर्ण्य याचिता मदनावली। यतो न लब्धा ततस्ते- १८ नागत्य चम्पा वेष्टिता। नित्यं युद्धे सति सुरङ्गया मदनावली गृहीत्वा नागवती शतमन्युपल्लिकायां वार्ता कथयित्वा स्थिता । पूर्व हरिषेणमदनावल्योरनुरागो ऽभूत् । ततस्तापसैनिर्धाटितेन तेन २१ भणितम्-यदीमां परिणयिष्यसि तदा निजभूमौ योजने-योजने चैत्यालयान् कारयिष्यामि । सिन्धुदेशे सिन्धुतटपुरे राजा सिन्धुनदो, राज्ञी सिन्धुमती, सिन्धूदेव्यादिपुत्रीशतं सकलचक्रवर्तिनः आदिष्टम्- २४ सिन्धुनद्यां कन्यानां स्नानं हरिषेणेन सह अनुरागाश्च । तत्रादेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org