________________
कथाकोशः [९०*१७]
१२३ सूरदत्तया गृहीतः । खण्डयन्त्या पुत्रपुत्रीणां रत्नं प्राप्य विषेण मारणचिन्तादिकं कृत्वा पुत्रावुपार्जितद्रव्येण जीविष्यतः इति संचिन्त्य मित्रवत्यास्तद्रलं दत्तम् । मातृभ्रातणां विषमरणं संचिन्त्य दुःपरि- ३ णामं च कथयित्वा तया मातुः समर्पितम् । ततो वैराग्यात्तत्त्यक्त्वा धर्मान्परीक्ष्य दमधरमुनिसमीपे तपो गृहीतं तैः ।।
[९०.१७] गुणपरिणामादीहिं य । [ गुणपरिमादीहिं य विज्जावच्चुज्जदो समज्जेदि । तित्थयरणामकम्मं तिलोयसंखोभयं पुण्णं ॥३२८॥ ]
अत्र कथा-सुराष्ट्रदेशे द्वारावतीनगर्यां हरिवंशे अर्धचक्रवर्ती ९ कृष्णनामा वासुदेवो, राज्ञी रुक्मिणी, जीवकनामा वैद्यः। अरिष्टनेमिसमवसरणं गच्छता वासुदेवेन सुव्रतनामा मुनिर्व्याधिक्षीणाङ्गो दृष्टः । वैद्योपदिष्टौषधपिण्डाः द्वारवत्यां सर्वगृहेषु वासुदेवेन धारिताः। १२ तदा वासुदेवेन तीर्थकरनामागोत्रमुपाजितम् । तदोषधभक्षणादारोग्यः, स मुनिर्वासुदेवेन दृष्ट्वा पृष्टः-भगवन्, कीदृशं शरीरम् । मुनिनोक्तम्-शरीरं कदाचित्कीदृशं भवति । भट्टारकेण गुणे न दत्त १५ इत्यार्तेन मृत्वा वैद्यो विधेर्नर्मदातीरे महान्मर्कटो जातः । तत्र वृक्षतले पर्यवस्थं स्वयं पतितः शाखाभिन्नोरस्कं शरीरं निःस्पृहं मुनिमालोक्य स मर्कटो जातिस्मरो ऽभूत् । क्रोधं परित्यज्य बहुमर्कटसहायेन तेन सा शाखा नामितवृक्षस्थशाखाया बहुवल्लीभिबन्धयित्वा अपनीता। पूर्वसंस्कारादौषधं व्रणे दत्तम् । तेनावधिज्ञानिमुनिना पूर्वभवकथनेन संबोधितः । सम्यक्त्वाणुवतानि गृहीत्वा २१ सप्तदिनैः संन्यासेन मृतः सौधर्मे देवो जातः । आगत्य तेन गुरुपूजा निजशरीरे पूजा च कृता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org