________________
श्री- प्रभाचन्द्र-कृतः
कौशाम्बीपुर्यां जिनदत्ताजिनदत्तयोः पुत्राय जिन पालकुमाराय दत्ता, गृहीत्वा निजकटकेन कौशाम्बीं गच्छत्या नागदत्तया अटवीसमीपे ३ जिनकल्पितो दृष्टोऽपि मौनेन गतः । अटव्यां नागदत्तां नागश्रियं च सर्वं कटकं च गृहीत्वा निजपल्लिकां गतो रात्रौ मुनेर्गुणकथां कुर्वन् नागदत्तया क्षुरिकां याचितः । तेन पृष्टा - किं करिष्यसि । कथितं ६ तया - यं पापिष्ठं त्वं वर्णयसि स चाण्डालो ममोदरे नवमासान् स्थितः । अत इदं क्षुरिकया पाटयामि । एतदाकर्ण्य तां जननीं प्रतिपद्य सर्वस्वयुक्तां कौशाम्बी प्राप्य जिनकल्पितसमीपे सूरदत्तो मुनिर्भूत्वा मुक्ति गतः ॥
१२२
[९० १६] तं वत्थं मोत्तन्वं जं पडि ।
[ तं वत्युं मोत्तव्वं जं पडि उप्पज्जदे कसायग्गी । तं वत्थु भल्लिएज्जो जत्थोवसमो कसायाणं || २६२|| ] अत्र कथा -- पूर्वमालवके तलिकाराष्ट्रदेशे परकच्छपत्तने राजा शूरसेनो, राज्ञी शूरसेना, श्रेष्ठी सूरदत्तः, पत्नी सूरदत्ता, पुत्रौ सूर१५ मित्रसूरचन्द्रौ, पुत्री मित्रवती । मृते सूरदत्ते दरिद्रौ सूरमित्रसूरचन्द्रौ सिंहलद्वीपे पृथिवीमूल्यरत्नं प्राप्य व्याघुटितौ । अटव्यां सूरमित्रस्तद्रत्नं हस्ते गृहीत्वा रक्षन् भिक्षां गतस्य सूरचन्द्रस्य विषदानेन १८ मारणं संचिन्त्य पश्चात्तापं करोति । अन्यदिने सूरचन्द्रः सूरमित्रस्य तथा करोति । एवं बहुदिनैर्निजपत्तने वेत्रवती नदीतटे ज्येष्ठेन लघवे' समर्पितम् । तत् लघुना तस्य पूर्वपरिणामः कथितः । ज्येष्ठेन २१ च ततो नदीद्रहे रत्नं निक्षिप्य गृहं प्रविष्टौ तौ । रत्नं द्रहे रोहितमत्स्येन गिलितम् । स च धीवरेण हत्वा विक्रीतः । पुत्रनिमित्तं
१. लघु ।
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org