________________
कथाकोशः [९०]
१११ नष्टः। तमालोक्य यतिवृषभाचार्यों राज्ञो रक्तेनाक्षराणि भित्तौ लिखित्वाहिमारेणायं मारित इति दर्शनोद्दोह[?]प्रशमनार्थं क्षुरिकया जठरं विदार्य संन्यासं कृत्वा समाधिना मृत्वा स्वर्ग गतः । वीरसेन- ३ कुमारेण द्वौ मृतौ दृष्ट्वा लिखितान्यक्षराणि चावलोक्याचार्यप्रशंसा कृत्वा जिनधर्मे राज्ये च स्थिरः स्थितः ।।
[९०] शकटालेनापीत्यादि। [ सगडालएण वि तधा सत्थग्गहणेण साधिदो अत्थो। वररुइपओगहेदुं रुटे णंदे महापउमे ॥ २०७६।। ]
अस्य कथा-पाटलिपुत्रनगरे राजा नन्दो, मन्त्री शकटालो, ९ विचारको वररुचिस्तौ परस्परविरुद्वौ सर्वदान्योन्यापकारप्रवृत्तौ। एकदा संघेन सह महापद्माचार्यः पाटलिपुत्रमायातः । तत्पार्वे धर्ममाकर्ण्य शकटालो मुनिर्भूत्वा ग्रन्थार्थं परिज्ञाय आचार्यो भूत्वा पुनः १२ पाटलिपुत्रमायातः। नन्दान्तःपुरे चर्यां कृत्वा निजस्थाने गतः। पूर्ववैराद्वररुचिना नन्दस्य कोपप्रवर्धनप्रयोगः कृतः । देव भिक्षामिषेण शकटालस्तवान्तःपुरं सर्वं विध्वंस्य गत इति । ततो नन्देन शकटाले १५ महापद्माचार्ये च रुष्टेन धाटकः प्रेषितः । शकटालमुनि टकमालोक्य वररुचेर्दुष्टं चेष्टितं ज्ञात्वा च्छुरिकया निजोदरं विपाट्य समाधिना मृत्वा स्वर्ग गतः । नन्दो ऽपि परीक्षां कृत्वा मुनिं निर्दोषं १८ ज्ञात्वा महापद्माचार्यसमीपे जिनधर्ममाकर्ण्य निन्दा गहीं च कृत्वा जिनधर्मे रतः ॥ यैराराध्य चतुर्विधामनुपमामाराधनां निर्मलां
२१ प्राप्तं सर्वसुखास्पदं निरुपमं स्वर्गापवर्गप्रदाम् । तेषां धर्मकथा प्रपञ्चरचना स्वाराधनासंस्थिता स्थेया कर्मविशुद्धिहेतुरमला चन्द्रार्कतारावधिः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org