________________
११०
श्री-प्रभाचन्द्र-कृतः वञ्चयित्वा आनीय गृहाभ्यन्तरे शृङ्खलायां घातयित्वा धृतः ।
पुनर्मे व्रतभङ्गं कारयिष्यतोति पर्यालोच्य संन्यासं गृहीत्वा श्वासं ३ निरुध्य मृत्वा स्वर्ग गतः ।।
[८९] अहिमारकेण नृपतौ निपातिते इत्यादि । [ अहिमारएण णिवदिम्मि मारिदे गहिसमलिंगेण । उड्डाहपसमणत्थं सत्थग्गहणं अकासि गणी ॥२०७५।। ]
अस्य कथा-श्रावस्तीनगर्यां राजा जयसेनो, राज्ञी वीरसेना, पुत्रो वीरसेनः, शिवगुप्तवन्दको जयसेनस्य गुरुः । एकदा संघेन सह ९ यतिवृषभनामा भट्टारकस्तत्र समायातः । तत्पावें धर्ममाकर्ण्य बौद्धधर्मे मतिं त्यक्त्वा जयसेनः श्रावको जातः। तेन जिनभवनैर्नगरीमण्डलं च भूषितम् । शिवगुप्तवन्दकः कुपितो जयसेनस्य मारणोपायं चिन्तयति । पृथिवीपुरे राजा सुमतिबौद्धधर्मरतः । शिवगुप्तेन गत्वा तस्य सर्वं कथितम् । ततस्तेन जयसेनस्य लेखः प्रेषितः–यथा त्वया विरूपकं कृतमद्यापि बौद्धधर्म गृहाण यदि मामभिलषसि । जयसेनेनोक्तम्-जिनधर्म एव मे। रुष्टेन सुमतिना किमचलसहस्रभटौ जयसेनंहन्तुं प्रेषितौ । तौ च श्रावस्ती प्रविश्य स्थितौ । अवकाशमलभमानौ
व्याघुट्य गतौ। ततः सुमतिना शिवगुप्तेन चोक्तम्-नास्ति स कोऽपि १८ पुरुषो यो जयसेनं मारयति । ततो ऽहिमारनाम्ना राजपुत्रेणोपासके
नोक्तम्-देव, कि विसूरयसि अहं तं मारयामीत्युक्त्वा तत्र गत्वा यतिवृषभमुनिसमीपे मायया कायक्लेशकरी [रो] मुनिरभूत् । एकदा जयसेनो देवमुनिवन्दनां कृत्वा सर्वलोकं चैत्यालयाद् बहिधुत्वा किंचित्पृष्टम् । चैत्यालयाभ्यन्तरे यतिवृषभमुनिसमीपे प्रविष्टः । तत्र
राजाहिमाराचास्त्रियो ऽप्येकान्ते स्थिताः। उत्तिष्ठता भूमिलग्नं २४ मस्तकं कृत्वा वन्दना कृता। तत्प्रस्तावेऽहिमारःक्षुरिकया ग्रीवां छित्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org