________________
कथाकोश: [ ८० ]
पूर्ववृत्तान्ते कथिते राजा मुनिरभूत् । विमलापुत्रोऽपि मुनिर्भूत्वा विहृत्य संवरपुरोत्तरदिशि यमुनानदीतटे निर्वाणं गतः ॥
[७] कोसलकधर्मसिंह इत्यादि ।
[ कोसलयधम्मसीहो अट्ठ साधेदि गिद्धपुट्टे । णयरम्मिय कोल्लगिरे चंदसिरिं विप्पजहिदू || २०७३ || ]
,
अस्य कथा - दक्षिणापथे कोसलगिरिपत्तने राजा वीरसेनो, राज्ञी वीरमतिः पुत्रश्चन्द्रभूतिः पुत्री चन्द्रश्रीः । कोशलदेशे कोशलपुरे धर्मसिंहराजेन परिणीता । एकदा धर्मसिंहो दमघरमुनिसमीपे धर्ममाकर्ण्य प्रियसेनपुत्राय राज्यं दत्त्वा मुनिरभूत् । चन्द्रश्रीभगिनीमतिदुःखितामालोक्य चन्द्रभूतिना धर्मसिंहो गवेषयित्वा आनीय चन्द्रश्रियः समर्पितः । पुनरपि गत्वा मुनिर्जातः । पुनश्चन्द्रभूतिमागच्छन्तमालोक्य पुनव्रतभङ्गं करिष्यतीति संचिन्त्य मृतहस्ति- १२ कलेवरे प्रविश्य संन्यासेन मृत्वा स्वर्गं गतः ॥
[८] मातुलकृतोपसर्ग इत्यादि ।
[ पाडलिपुत्ते भूदाहेदुं मामयकदम्मि उवसग्गे । साधेदिउसभसेणो अट्ठ विक्खाणसं किच्चा ॥ २०७४|| ]
१०९
अस्य कथा --- पाटलिपुत्रनगरे श्रेष्ठीं वृषभदत्त इभ्यो, भार्या वृषभश्रीः, पुत्रो वृषभसेनस्तस्य मातुलको धनपतिरिभ्यो भार्या श्रीकान्ता, पुत्रो धनश्रीः । वृषभसेनो धनश्रियं परिणीय भोगमनुभूय दमघरमुनिसमीपे धर्ममाकर्ण्य मुनिरभूत् । धनश्रीः दुःखिता रोदिति । ततो धनपतिमामेन गवेषयित्वा आनीय व्रतभङ्ग कारितः । कतिपयदिनानि स्थित्वा पुनर्मुनिर्जातः । पुनर्मामेन
Jain Education International
For Private & Personal Use Only
१५
१८
२१
www.jainelibrary.org