________________
श्री-प्रमाचन्द्र-कृतः
अस्य कथा -- मिथिलानगर्यां राजा शुभो, राज्ञी मनोरमा, पुत्रो देवरतिः । एकदा संवेन सह देवगुरुर्गणधरस्तत्र समायातः । राज्ञा ३ वन्दित्वा धर्ममाकर्ण्य क्व मे जन्म भविष्यतीति पृष्टः । कथितं मुनिना - निजवगृहे महाकृमिर्भविष्यसि त्वम् । साभिज्ञानं च नगरीप्रवेशे मुखे गूथप्रवेशः छत्रभङ्गः सप्तमे दिने अशनिपातान्म६ रणम् । प्रविशतोऽश्वरथचरणाहतो गूथो मुखे प्रविष्टः । महावात्याभितं छत्रं भग्नम् । ततस्तेन पुत्रो भणितः - अहं वर्चोगृहे पञ्चवर्णो महाकृमिर्भविष्यामि तं मारयेस्त्वम् । अशनिभयाद् गङ्गामहाद्रहे ९ लोहमञ्जूषां कारयित्वा प्रविष्टः । महामत्स्येनोच्छालिता मञ्जूषा । तस्मिन्नेव क्षणे अशनिपातान्मृतो वर्चोगृहे कृमिर्जातः । पुत्रेण मार्यमाणः प्रणश्य गथे प्रविष्टो देवरतिवचनात्तं वृत्तान्तमाकर्ण्य १२ बहवो जिनधर्मे रताः । देवरतिः संसारनिन्दां कृत्वा मुनिरभूत् ।
१५
१०८
२१
[८६] विमला चक्रेण मारित इत्यादि ।
[ विमलाहेदुं वंकेण मारिदो निययभारियागब्भे । जादो जादो जादिभरो सुदिट्ठी सम्मेहि || १८०६ । ]
१८
अस्य कथा -- उज्जयिन्यां राजा प्रजापालो, राज्ञी सुप्रभा, रत्नविज्ञानिक सुदृष्टिर्भार्या विमला । सुदृष्टेः छात्रो वक्रः । तेन सह विमला कुकर्म करोति । एकदा विमला संकेतितेन वक्रेण सुरते: सेवां कुर्वाणो मारितः सुदृष्टिनिजशुक्रेण विमलागर्भे पुत्रो जातः । सुदृष्टेः पदं वक्रस्य विज्ञानिनः समर्पितम् । अन्यदा चैत्रमासे रमणीयोद्याने राज्ञा सह क्रीडन्त्याः सुप्रभायाः क्रीडाविलासनामोत्तमहारः त्रुटितः । केनापि सुवर्णकारेण तथा न रचितुं शक्यः । विमलापुत्रेण हारं दृष्ट्वा जातिस्मरेण जातेन पूर्वहेतुना रचितः । राज्ञा स पृष्टः । २४ कथं सुदृष्टेर्हारो रचितस्त्वया । कथितं तेनाहमेव स सुदृष्टिरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org