________________
१०६
श्री-प्रभाचन्द्र-कृतः पायसं घातयित्वा मारितः। विजयसेनो लवणसमुद्रे व्यन्तरदेवो
जातः । रोषात्तापसरूपेण मृष्टफलान्यानीय सुभौमः समुद्रमध्ये नीत्वा ३ पञ्चनमस्कारान्पादेन भञ्जयित्वा प्रचार्य मारितः सप्तमनरकं गतः ।।
[८४] जननी वसन्ततिलकेत्यादि । [ जणणी वसंततिलया भगिणी कमला य आसि भज्जाओ। धणदेवस्स य एक्कम्मि भवे संसारवासम्मि ।।१८००।। ]
अस्य कथा-उज्जयिन्यां राजा विश्वसेनः, श्रेष्ठी सुदत्तः षोडशकोटिद्रव्यस्वामो, गणिका वसन्ततिलका, सा सुदत्तेन गृहवासे धृता। कतिपयदिनैस्तस्याः गर्भसंभूतौ कण्डूकासश्वासादयो रोगा जाताः । ततः सुदत्तेन त्यक्ता निजगृहेषु पुत्रपुत्रीयुगलं प्रसूता। उद्विग्नया
तया रत्नकम्बलेन वेष्टयित्वा पुत्री नगरोदक्षिगप्रतोल्यां मुक्ता। १२ प्रयोगादागत्य तत्र स्थितेन सुकेतुसार्थवाहेनानीय सा निजभार्यायाः
सुप्रभायाः समर्पिता। कमलानामा वृद्धि गता। उत्तरप्रतोल्यां पुत्रो मुक्तः । सो ऽपि साकेतपुरादागत्य तत्र स्थितेन सुभद्रसार्थवाहेनानीय निजभार्यायाः सुव्रतायाः समर्पितः। स च धनदेवनामा वृद्धि गतः बहुदिवसैः पुनरागत्योज्जयिन्यां सार्थवाहाभ्यां तयोः कमलाधनदेवयोविवाहः कारितः । ततः साकेतपुरं गत्वा कतिपयदिनानि भोगान्भुक्त्वा कमलां तत्रैव धृत्वा धनदेवः पुनरुज्जयिन्यामागतो वसन्ततिलकायां निजजनन्यां भोगमनुभवन्पुत्रमुत्पादितवान् । अयोध्यायां च कमलया मुनिपार्वे धर्ममाकर्ण्य सम्यक्त्वं व्रतं गृहीत्वा धनदेवस्य कुशलवार्ता पृष्टा। कथितं मुनिना-जनन्या वसन्ततिलकया सहोज्जयिन्यां भोगान्भुञ्जानः कुशलेन तिष्ठति । पुनः
कमलया पृष्टम् -कस्मिन् भवे सा तस्य जननी। कथितं मुनिना २४ पूर्वभवे पिता अत्रभवे जननी ।।
१८
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org