________________
कथाकोशः [१३]
१०५ अस्य कथा-दक्षिणापथे कुणालपुरे राजा वैश्रवणो, मन्त्री रिष्ठामत्यो मिथ्यादृष्टिः। एकदा संघेन सह वृषभसेनगणधरः समायातः । राज्ञा सर्वलोकैर्गत्वा वन्दितः । रिष्टामात्येन वादः कृतः । स ३ वादेन जितः । ततोऽभिमानात्तेन रात्रौ प्रच्छन्नेन वसतिका प्रज्वालिता तमुपसर्गमनुभूय मुनयः परमसमाधिना स्वर्गापवर्ग गताः ।।
[८२] आहारार्थं मत्स्या इत्यादि । [अवधिट्ठाणं णिरयं मच्छा आहारहेदु गच्छंति । तत्थेवाहारभिलासेण गदो सालिसित्थो वि ॥१६४९।। ]
अस्य कथा-स्वयंभूरमणसमुद्रे महामत्स्यः सहस्रयोजनदीर्घः ९ पञ्चयोजनशतविस्तारः पञ्चाशदधिकद्वियोजनशतोच्छायः। तस्य कणे शालिसिक्थप्रमाणः शालिसिक्थनामा लघुमत्स्यस्तस्य कर्णमलं भक्षयति । बहुजीवभक्षणं कृत्वा महामत्स्यस्य मुखं विकास्य षण्मासान्निद्रां कुर्वाणस्य योजनादिप्रमाणाः मत्स्यकच्छपादयो मुखदंष्ट्रान्तरे प्रविश्य गच्छन्ति । तांस्तथा दृष्ट्वा स लघुमत्स्यः प्रतिदिनं चिन्तयति-महामूर्यो ऽयमिति । मम यदीदृशी सामग्रो भवति १५ तदैको ऽपि न गच्छति । एवं बहुना कालेन मृत्वा द्वावपि सप्तमनरकमवधिष्ठानसंज्ञकं गतौ ।।
[८३] चक्रधरोऽपि सुभौम इत्यादि । १८ [चक्कधरो वि सुभूभो फलरसगिद्धोए वंचिओ संतो। णट्ठो समुद्दमज्झे सपरिजणो तो गओ णिरयं ।।१६५०।। ]
अस्य कथा-ईर्ष्यावतीनगर्यां राजा कार्तवीर्यो, राजी रेवती, २१ पुत्रः सुभौमो अष्टमचक्रवर्ती, माहानसिको विजयसेनः । तेनैकदोष्णपायसं भौमस्य भोक्तुं दत्तम् । तेन दग्धो रुष्टेन चक्रिणा मस्तके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org