________________
१०२
mr
श्री-प्रभाचन्द्र-कृतः [७८] धन्यो यमुनाचक्रेणेत्यादि । [धण्णो जउणावंकेण तिक्खकंडेहिं पूरिदंगो वि । तं वेयणमधियासिय पडिवण्णो उत्तमं अटुं ॥१५५४।।
अस्य कथा-जम्बूद्वीपपूर्वविदेहे वीतशोकपुरे राजा अशोको धान्यगाह[ल]नकाले बलोवर्दानां मुखबन्धनं कारयति । महानसे च ६ पाकं कुर्वन्तीनां स्तनबन्धं कारयित्वा बालानां स्तनं पातुं न
ददाति। एकदा शिरसि मुखे च तस्य रोगो ऽभूत् । ततस्तस्य स्फेटनार्थं वरौषधं पाचयित्वा भाजने भोज नाय गहीतम् । तत्प्रस्तावे ९ चर्यागतमुनये तदौषधं दिव्यपथ्यं च दत्तं यो मे रोगः सो ऽस्यापीति
ज्ञात्वा । ततो द्वादशवार्षिको रोगो मुनेनष्टः । भरतक्षेत्रे आमलकण्ठनगरे राजानिष्टसेनो राज्ञी नदीमतिः। अशोकराजो मृत्वा तद्दानफलात्पुत्रो धन्यनामा जातः । अरिष्टनेमितीर्थकरपादमूले धर्ममाकयें स्वल्पायुर्ज्ञात्वा मुनिर्जातः । पूर्वकर्मोदयाद्भिक्षामलभमानो ऽप्युग्रोग्रं तपः कुर्वाणः संवरीपुरे यमुनायाः पूर्वतटे आतापनस्थः पापद्धिगतेन व्याधुटितेन यमुनाचक्रेण राज्ञा अपशकुनाद् बाणैः पूरितो ऽपि समाधिना सिद्धि गतः ॥
[७९] अर्धसहस्रप्रमिता इत्यादि । [ अभिणंदणादिगा पंच सया णयरम्म कुंभकारकडे । आराधणं पवण्णा पीलिज्जंता वि जंतेण ॥१५५५।। ]
एतेषां कथा-दक्षिणापथे भरतदेशे कुम्भकारकटनगरे राजा २१ दण्डको, राज्ञी सुव्रता, मन्त्री बालकः । तत्राभिनन्दनादयः पञ्चशत
मुनयः समायाताः। खण्डकमुनिना बालकमन्त्री वादे जितः । ततो
रुष्टेन तेन भण्डो मुनिरूपं कारयित्वा सुव्रतया समं रममाणो राज्ञो २४ दर्शितः । भणितं च तेन-देव, दिगम्बरेषु भक्त्यातिमुख्यो ऽसि येनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org