________________
कथाकोशः [40]
१०३
भार्यामपि तेभ्यो दातुमिच्छसि । ततो रुष्टेन राज्ञा मुनयो यन्त्रे निःपीलिताः । ते तमुपसर्गं प्राप्य परमसमाधिना सिद्धिं गताः ॥
[ ८० ] गोष्ठे प्रायोपगत इत्यादि ।
[ गोट्टे पाओवगदो सुबंधुणा गोव्वरे पलिविदम्मि | ज्झतो चाणक्को पडिवण्णो उत्तमं अट्ठ || १५५६|| ]
अस्य कथा - पाटलिपुत्रनगरे राजा नन्दः, काविसुबन्धुशकटालास्त्रयो मन्त्रिणः, पुरोहितः कपिलो, भार्या देविला, पुत्रश्चाणक्यो वेदपारगः । एकदा काविमन्त्रिणा नन्दस्य कथितम् - देव, तवोपरि प्रत्यन्तवासिनो राजानश्चलिताः । नन्देनोक्तम् - द्रव्यं दत्त्वा तान्निवारय । ततः काविना यथायोग्यं द्रव्यं दत्त्वा ते निवारिताः । एकदा नन्देन भाण्डागारिको भाण्डागारे द्रव्यं पृष्टः । तेनोक्तम्काविना सर्व द्रव्यं प्रत्यन्तवासिनां दापितं वर्तते । रुष्टेन नन्देन १२ सकुटुम्बः काविरन्धकूपे निक्षिप्तः । संकटद्वारे तत्रैकैकं भक्तशरावं स्तोकजलं च वरत्राबन्धं तस्य दीयते । काविना भणितम् - सकुटुम्बं नन्दं यो विनाशयति स भुञ्ज्यादिति । सर्वेर्भणितम् — त्वमेवात्र १५ समर्थः । ततः कूपतटे बिलं कृत्वा तत्र भोजनं कुर्वाणस्त्रीणि वर्षाणि स्थितः । मृतं कुटुम्बम् । प्रत्यन्तवासिनां क्षोभे जाते नन्देन स्मृत्वा काविः कूपान्निःसार्य मन्त्रिपदे धृतः । एकदा नन्दवंशविनाशार्थं १८ पुरुषमन्वेषयता काविनाटवीमध्ये सच्छात्रं दर्भसूचीं खनन्तं चाणाक्यं दृष्ट्वा पृष्टः । किमर्थमिमां खनसि । कथितं तेन । विद्धो ऽहमनयेति । काविनोक्तम् - पूर्यते बहु क्षमां कुरु । चाणाक्येनोक्तम् - न च २१ खनेद्यस्य न मूलमुद्धरेन्न तद्वध्येद्यस्य शिरो न कृन्तयेदिति । एतदा
१) भुंक्तादिति ।
Jain Education International
३
For Private & Personal Use Only
www.jainelibrary.org