________________
१.१
कथाकोशः [७७] पुत्रो जातः । एकदा राज्ञा मम बहुपुत्राणां मध्ये को राजा भविष्यतीति संचिन्त्य नैमित्तिकः पृष्टः । कथितं तेन--सिंहासनस्थो भेरी ताडयन् कुक्कुराणां क्षैरेयों ददानो यो भुङ्क्ते अग्निदाहे च यो हस्ति- ३ सिंहासनच्छत्रादिकं निःसारयति स राजा भविष्यति। शुभदिने परीक्षार्थमेकदा सिंहासनभेरीसमीपे सर्वेषां राजकुमाराणां भोक्तु. मुपविष्टानां क्षरेयों परिवेषयित्वा पञ्चशतानि कुर्कुराणां मुक्तानि। ६ तत: सर्वे ते नष्टाः। श्रेणिकेन सर्वाणि क्षरेयीभृतभाजनान्यात्मसमीपे धृत्वा एकैकं भाजनं कुर्कुराणां मुञ्चता भेरीमाताडयता सिंहासने उपविश्य क्षरेयीं भुङ्क्तवा अग्निदाहे च जाते हस्तिसिंहासनच्छत्रा- ९ दिकं निःसारितं ज्ञात्वा राजा शत्रुभयात्कुर्कुरविट्टालणादिदोषं दत्त्वा देशानिर्धाटितो द्राविडदेशे काञ्चीपुरे गत्वा स्थितः । एकदा चिलातपुत्राय राज्यं दत्त्वा प्रश्रेणिको मुनिरभूत् । चिलातपुत्रो ऽन्यायपरः। १२ ततः श्रेणिकेनागत्य निर्धाटितो महाटव्यां दुर्गं कृत्वा देशकरं गृहीत्वा कालं गमयति । अस्य सखा भर्तृमित्रः । तस्य मातुलो रुद्रदत्तो भर्तृमित्रस्य निजपुत्रों सुभद्रां न ददाति । ततो भर्तृमित्रवचनात्पञ्चशतसुभटैः सह राजगृहमागत्य चिलातपुत्रो विवाहस्नानकाले तां छलेन हत्वा गतः। तच्छत्वा सर्वबलेन सह श्रेणिकः पृष्ठे लग्नः । पलायितुमसमर्थेन तेन मारिता सुभद्रा व्यन्तरदेवी जाता। चिलात- १८ पुत्रेण नश्यता वैभारपर्वतस्योपरि पञ्चशतमुनिसमन्वितं दत्तमुनि दृष्ट्वा तेनोक्तम् --- भगवन्मे तपो देहि। स्वकार्य साधयामि । मुनिनोक्तम्-पुत्र गृहीत्वा तपः स्वकार्य शीघ्रं साधय अष्टदिनान्येव २१ तवायुरस्ति। ततस्तपो गृहीत्वा पादोपयानमरणे स्थितः । श्रेणिकस्तं तथा स्थितं दृष्ट्वा वन्दित्वा प्रशस्य च व्याघुट्य गतः । सुभद्रया च व्यन्तरदेव्या पूर्ववैरात्सौलिकारूपेण तन्मस्तके स्थित्वा लोचने २४ तस्योत्पाटिते स्थूलशिरो मधुमक्षिकारूपं विकृत्याष्टदिनान्यनवरतं भक्ष्यमाणो ऽपि समाधिना मृत्वा सर्वार्थसिद्धावुत्पन्नः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org