________________
श्री-प्रमाचन्द्र-कृतः
नुरागया चन्द्रकीतिर्भणितः–तात मां गुरुदत्ताय देहि। ततो दत्ता
गुरुदत्तस्य । लोकैः कथितम्-द्रोणीमतिपर्वते व्याघ्रस्तिष्ठति । तेन ३ समस्तो देश उद्वासितः। तच्छ्रुत्वा सर्वजनेन सह गत्वा वेष्टितो व्याघ्रः। स च गुहायां प्रविष्टः । गुहायामभ्यन्तरे काष्ठानि प्रक्षिप्याग्निः प्रज्वालितः। चन्द्रपुरीनगर्यां ब्राह्मणो भरतो, भार्या ६ विश्वदेवी, व्याघ्रो मृत्वा तत्पुत्रः कपिलनामा जातः । गुरुदत्ता
भयमत्योः सुवर्णभद्रनामा पुत्रो जातः। तस्मै राज्यं दत्त्वा गुरुदत्तो मुनिरभूत् । विहरत्कपिलक्षेत्रसमीपे कायोत्सर्गेण स्थितः । कपिलो ऽपि निजभार्यां कपिलां भोजनं गृहीत्वा शीघ्रं त्वमागच्छेत्युक्त्वा तत्क्षेत्रे गतः। तत्क्षेत्रं कर्षणायोग्यं मत्वा भट्टारको भणितस्तेन । मदीय
ब्राह्मण्याः कथयेस्त्वं तव भर्तान्यक्षेत्रं गत इति भणित्वा गतः । १२ ब्राह्मण्या आगत्य पृष्टो मुनिमनिन स्थितो ब्राह्मणी गृहं गता।
बृहद्वेलायां कपिलेनागत्य ब्राह्मणी निर्भत्सिता । भट्टारकं पृष्ट्वा किं नायातासि । तयोक्तम्-पृष्टो ऽपि स न कथयति। ततो रुष्टेन तेन गत्वा शाल्मलितूलेन वेष्टयित्वाग्निः प्रज्वालितः। मुनिना परमध्यानेन केवलज्ञानमुत्पादितम् । देवागमने जाते आत्मानं निन्दयित्वा तस्यैव समीपे धर्ममाकर्ण्य मुनिर्जातः ।।
१५
१८
[७७] गाढप्रहारविद्ध इत्यादि । [गाढप्पहारविद्धो मूइंगलिया हि चालणी व कदो। तध वि य चिलादपुत्तो पडिवण्णो उत्तमं अटुं ॥१५५३।।
अस्य कथा-राजगृहनगरे राजा प्रश्रेणिक एकदा वाह्याल्यागतो दुष्टाश्वेन महाटवीं नीतः। तत्राटविकयमदण्डराजेन तिलका
वत्याः पुत्रस्य त्वया राज्यं दातव्यमिति भणित्वा निजपुत्रों तिलका२४ वतीं परिणय्य राजगृहं प्रेषितः । तिलकावत्याश्चिलातपुत्रनामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org