________________
कथाकोशः [ ७६ ]
प्रदानं दीयताम् । राज्ञा पृष्टम् - कथं तव मित्रमेषः । स कथयति । दक्षिणापथे ऽभीरदेशे वेनानदीतीरे वेनातटनगरे राजा जिनशत्रुर्भार्या जयावती तत्पुत्रो ऽहं विद्युच्चौरः । तत्र तलारो यमपाशो, भार्या ३ यमुना, तत्पुत्रो ऽयं यमदण्डः । एकोपाध्यायपार्श्वे मया चौरशास्त्रं शिक्षितमनेन च तलारशास्त्रम् । द्वाभ्यां प्रतिज्ञा कृता । मयोक्तम् - यत्र त्वं तलारस्तत्रावश्यं मया चोरिका कर्तव्या । अनेन चोक्तम् - यत्र त्वं चौरस्तत्रावश्यं मया रक्षितव्यम् । एकदा राजा मम निजपदं समर्प्य मुनिर्जातः । तलारो ऽप्यस्य निजपदं समर्प्य मुनिर्जातः । मदीयभयादागत्य तवायं तलारो जातः । अमुं गवेषयितुमत्रागत्याहं प्रतिज्ञावशाच्चौरो जातः । पत्तनद्रव्यं हारपर्यन्तं सर्वं कथयित्वा पञ्चशतमुनिभिः सह विहरन् तामलिप्तपत्तनं गतः । पत्तनप्रवेशेस चामुण्डया आगत्य वारितः - भगवन्मम पूजा यावत्स - १२ माप्यते तावत्पत्तनं मा प्रविशत्वम् । शिष्यैः प्रेरितस्तत्र प्रविश्य पश्चिमदिशि प्राकारसमीपे रात्रौ प्रतिमायोगेन स्थितः । चामुण्डया कपोतप्रमाणदंशमशकैस्तस्योपसगं कृतः । विद्युच्चरमुनिस्तमुपसर्ग- १५ मनुभूय मोक्षं गतः ॥
[७६] हस्तिनागपुरगुरुदत्त इत्यादि ।
[ हत्थणपुरगुरुदत्त संबलियाली व दोणिमंतम्मि । उज्झतो अधियासिय पडिवण्णो उत्तमं अट्ठे ॥१५५२॥
अस्य कथा - हस्तिनागपुरे राजा विजयदत्तो, राज्ञी विजया, पुत्रो गुरुदत्तः । तस्मै राज्यं दत्त्वा विजयदत्तो मुनिरभूत् । लाटदेशे द्रोणीपर्वतसमीपे चन्द्रपुरीनगर्यां राजा चन्द्रकीतिर्भार्या चन्द्रलेखा, पुत्री अभयमतिः गुरुदत्तेन परिणेतुं याचिता न दत्ता । कोपाद् गुरुदत्तेन गत्वा चन्द्रपुरी वेष्टिता । अभयमत्या वार्तामाकर्ण्य जाता
Jain Education International
९९
For Private & Personal Use Only
१८
२१
२४
www.jainelibrary.org