________________
श्री- प्रभाचन्द्र-कृतः
वेगाय राज्यं दत्त्वा मुनिर्भूत्वैकाकी विहृत्य काकन्द्यामुद्याने वीरसेनेन स्थितः । पूर्ववैराच्चण्डवेगेन चक्रेण हस्तो पादी च छिन्नौ । ३ परसमाधिना केवलज्ञानमुत्पाद्य मुनिर्मोक्षं गतः ॥
९८
[ ७५ ] दंशरपीत्यादि ।
[ दंसेहिं य मसएहि य खज्जंतो वेदणं परं घोरं । विज्जुच्चरो धियासिय पडिवण्णो उत्तमं अट्ठे ॥ १५५१ ।। ]
अस्य कथा — मिथिलानगर्यां राजा वामरथः, तलारो यमदण्डः, चोरो विद्युच्चरनामा नानाविज्ञानोपेतः । दिवसे शून्यदेवकुले शून९ हस्तपादकुष्ठी रङ्को भूत्वा तिष्ठति । रात्रौ चोरिकायां भोगानुभवनं च दिवि दिव्यरूपेण करोति । एकदा वामरथराजस्य हारस्तेन हृतः । प्राते [ता ] राज्ञा यमदण्डो भणितः । रात्रौ दिव्यरूपेण चोरेण १२ मां मोहयित्वा हारो नीतः । तं हारं सप्तरात्रेणानयान्यथा तव निग्रहं
करिष्यामीति । सप्तमदिने नाथशालायाः स कुष्ठी धृत्वा तलारेण राजाग्रे नीतः । चौरो ऽयमिति भणितम् । तेनोक्तम् - नाहं चौरः । त१५ लारेणोक्तम् । देवायमेव चौरः । ततो लोकैरुक्तम् । देव तलारश्चीरमप्राप्नुवन् रङ्कं पर्यटकं मारयति । तलारेण निजगृहं नीत्वा माघमासे रात्रौ सेचनबाधनताडनदाहनादिद्वात्रिंशत्कदर्थनाभिः कद१८ थितः । तथापि नाहं चौर इति वदति । प्रभाते राजाग्रे नीत्वा तलारेणोक्तम् - देव चौरो ऽयमिति । चौरेणोक्तम् - नाहं चौर इति । अभयप्रदानं दत्त्वा राज्ञा स भणितः । किं त्वं चौरो न वा । ततस्ते२१ नोक्तम् - चौरोऽहम् । पुनः पृष्टं राज्ञा - कथं त्वया द्वात्रिंशत्कदर्थं नाः दुःसहाः सोढाः । कथितं तेन - मया मुनिपार्श्वे नरकदुःखं श्रुतम् । तस्मात्कोटिभागमिदं न भवतीति संचिन्त्य सोढं दुःखम् । तुष्टेन २४ राज्ञा वरं प्रार्थयेत्युक्तः । भणितं तेनास्य तलारस्य मम मित्रस्याभय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org