________________
कथाकोशः [७२] [७१] चिरवैरसुरविनिर्मितेत्यादि । . [सीदेण पुव्ववइरियदेवेण विकुव्विएण घोरेण । संतत्तो सिद्धिदिण्णो पडिवण्णो उत्तमं अत्थं ॥१५४७॥ ]
अस्य कथा-इलावर्धननगरे राजा जितशत्रुर्भार्या इला, पुत्रः श्रीदत्तः । अयोध्यायामंशुमतो राज्ञः पुत्रीमंशुमती स्वयंवरे परिणीतवान् । अंशुमत्याः सहैकः शुकः समायातः । स श्रीदत्तांशुमत्योढ़ेंते ६ रममाणयोः श्रीदत्तजये' एकां रेखां ददाति । अंशुमतीजये द्वे रेखे ददाति । ततः श्रीदत्तेन कोपाद् ग्रोवायां चम्पितो मृतो व्यन्तरदेवो जातः । श्रीदत्तो ऽप्येकदा प्रासादस्थो मेघविनाशमालोक्य वैराग्या- . न्मुनिर्भूत्वा विहरन्नेकाकी निजनगरमायातः । शीतकाले बहिः कायोत्सर्गेण स्थितः । तेन व्यन्तरदेवेन घोरशीतवातौ कृत्वा शीतलजलेन सिक्तः परमसमाधिना निर्वाणं गतः ।।
१२
[७२] उष्णमित्यादि । [उण्हं वादं उण्हं सिलादलं आदवं च अदिउण्हं । सहिदण उसहसेणो पडिवण्णो उत्तमं अटुं ।।१५४७॥ ]
अस्य कथा-उज्जयिन्यां राजा प्रद्योत एकदा गजधरणार्थमटव्यां गतो मत्तगजारूढः । तेन च वनगजेन दूरमटवीं प्रवेशितः । वृक्षशाखामवलम्ब्यावतीर्णो व्याघुटयैकाकी खेटग्रामे कूपतटे समुपविष्टः । ग्रामकूटजिनपाल: तस्य पुत्री जिनदत्ता पानीयं भर्तु- . मायाता। तेन जलं पातुं याचिता महापुरुषं ज्ञात्वा जलं पाययित्वा तया पितुः कथितम् । तेन गत्वानीय स्नानभोजनादौ कारिते ..
१) जये ऽसि एकां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org