________________
श्री-प्रभाचन्द्र-कृतः [६९] कौशाम्ब्यां ललितघटेत्यादि । [ कोसंबीललियघडा बूढा णइपूरएण जलमञ्झे। आराधणं पवण्णा पाओवगदा अमूढमदी ।।१५४५।।]
अस्याः कथा-कौशाम्बीनगर्यामिन्द्रदत्तादयो द्वात्रिंशदिभ्यास्तेषां समुद्रदत्तादयो द्वात्रिंशत्पुत्राः परस्परं मित्रत्वमागताः । सम्यग६ दृष्टयः केवलीसमीपे ऽतिस्वल्पं निजजीवितं ज्ञात्वा तपो गृहीत्वा ते
समुद्रदत्तादयो यमुनातीरे पादोपयानमरणेन स्थिताः । अतिवृष्टी जातायां जलप्रवाहेग यमुनाद्रहे पातिताः। परमसमाधिना कालं ९ कृत्वा स्वर्ग गताः ।।
१२
[७०] कृतमासक्षपणविधिरित्यादि । [ चंपाए मासखमणं करित्तु गंगातडम्मि तण्हाए । घोराए धम्मघोसो पडिवण्णो उत्तमं ठाणं ॥१५४६।।]
अस्य कथा-चम्पायां मासोपवासं कृत्वा धर्मघोषो मुनिरुद्भगमुनर्गोष्ठे पारणकं कृत्वा चलितः। मार्गे नष्टे हरितकायोपरि गमन१५ मकुर्वन् तृषापीडितो गङ्गातटे वटवृक्षतले विश्रान्तः। तं दृष्ट्वा
गङ्गादेव्या प्रासुकजलभृतं कलशं गृहीत्वा आगत्य प्रणम्योक्तम्
भगवन् पानीयं पिबेति । तेनोक्तम्-न कल्पते । ततो गङ्गादेवतया १८ पूर्वविदेहं गत्वा केवलज्ञानी पूर्ववृत्तान्तं कथयित्वा पृष्टः । केन कार
णेन पानीयं न पीतम् । तेन मुनिना कथितं केवलिनां । देवहस्ते
नाहारो न कल्पते मुनीनाम् । ततः शीघ्रमागत्य सुगन्धशीतल२१ गन्धोदकवृष्टी कृतायां केवलज्ञानमुत्पाद्य धर्मघोषमुनिर्मोक्षं गतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org