________________
कथाकोशः [१८] निजायुः स्तोकं ज्ञात्वा तपोगृहीत्वैकविहारी जातः। गङ्गामुत्तरतस्तस्य नौर्बुड्डा । स च केवलज्ञानमुत्पाद्य निर्वाणं गतः ।।
[६८] अवमोदरेण तपसेत्यादि । [ओमोदरिए घोराए भद्दबाहू असंकिलिटुमदी। घोराए तिगिछाए पडिवण्णो उत्तमं ठाणं ।।१५४४॥ ]
अस्य कथा-पुण्ड्रवर्धनदेशे कोटीनगरे राजा परथः, पुरोहितः ६ सोमशर्मा, भार्या श्रीदेवी, पुत्रो भद्रबाहुः। मौञ्जीबन्धे कृते बहुब्रह्मचारिभिः सह बहिः क्रीडता तेनैकदिवसोपरि क्रमेण त्रयोदश वट्टा वृताः। वर्धमानस्वामिनि मोक्षं गते पञ्चानां चतुर्दशपूर्वधारिणां मध्ये ९ यश्चतुर्थश्चतुर्दशपूर्वधरो गोवर्धननामा मुनिस्तेनोर्जयन्ते वन्दनार्थ गच्छता तट्टविज्ञानमालोक्योक्तम् । पश्चिमपञ्चचतुर्दशपूर्वधरो ऽयं भद्रबाहुः श्रुतकेवली भविष्यतीत्युक्त्वा पितृहस्तानीत्वा सर्वशास्त्राणि १२ पाठयित्वा गृहं प्रेषितः । पुनरागत्य कुमारो ऽपि गोवर्धनमुनिसमीपे मनिर्भूत्वा चतुर्दशपूर्वाणि पठित्वा संघधरो भूत्वा गोवर्धनगुरौ देवलोकं गते संघेन सह विहरन्नुज्जयिन्यामागतः चर्यायां प्रविष्टो १५ खोल्लिकायां स्थितेनाव्यक्तबालेन भणितः-भगवन् मठं गच्छ । तच्छत्वा द्वादशवर्षानवृष्टिर्दुभिक्षं भविष्यतीति ज्ञात्वालाभेन गतः । अपराह्ने सकलमुनीनां कथितम्-अत्र देशे द्वादशवर्षाणि दुर्भिक्षं भवि- १८ ष्यति । स्वल्पायुरहमत्र तिष्ठामि । यूयं दक्षिणापथं गच्छत । इत्युक्त्वा स्वशिष्यो दशपूर्वधरो विशाखाचार्यः स सर्वसंघेन सह दक्षिणापथे प्रेषितः । तत्रत्यश्चन्द्रगुप्तो राजा गुरुवियोगमसहमानो भद्रबाहु- २१ समीपे मुनिरभूत् । तीव्रबुभुक्षातृष्णाश्चानुभूयोज्जयिन्यां भद्रबाहुभंगवान भद्रवरसमीपे संन्यासात्स्वर्गं गतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org